न्यायवैशेषिकदर्शनयोर्मोक्षतत्त्वविमर्शः {The Salvation in the Ancient Logic}

Authors

  • केशवशरणोऽर्यालः Keshavsharan Aryal Department of Nyāy Darśan (Ancient Logic), Balmeeki Vidyapeeth (Campus), Kathmandu, Nepal

DOI:

https://doi.org/10.3126/kdk.v4i1.64538

Keywords:

निःश्रेयसम्, अपवर्ग, ज्ञानकम्र्मसमुच्चय, निरतिशय, न्याय

Abstract

पौरस्त्यचिन्तनानि मोक्षे पर्यवसन्नानि भवन्ति । अखिलान्यपि चिन्तनानि मोक्षार्थमेव प्रवत्र्तमानानि सन्ति राराजन्ते । पौरस्त्यचिन्तनेषु तत्र तत्र मोक्षकारणे तत्स्वरूपे च भेदस्तु सहजोऽपेक्ष्यश्च । न्यायवैशेषिकयोश्चिन्तने मोक्षतत्त्वं किंस्वरूपकम्, किञ्च तस्य कारणम्, कथञ्च तल्लब्धिरित्यादिकं प्रस्तुतस्य लघुप्रबन्धस्य समस्यात्वेन दृग्गोचरीभवति । तत्समाधानायाऽऽवश्यकसामग्रीसङ्कलनार्थं भूयसा प्रमाणेन पुस्तकालयाः प्रयुक्ताः । अथ च न्यूनाधिकतयाऽन्तर्जालादिकमप्यवालम्ब्यत । यथाऽऽवश्यकमवयवतत्त्वज्ञैः सह संवादादिकमपि  विधाय सामग्रीसङ्कलनं व्यधायि । तदनु सङ्कलितसामग्रीर्विश्लिष्य  प्रस्तुतशोधलेखसज्जीकरणार्थं गुणात्मकानुकूलःसमीक्षणात्मको विधिरवलम्बितः । मोक्षपदं मोक्षणमित्यर्थे घञि चौरादिकान्मोक्ष्धातुतो निष्पद्यते । मोक्षो नाम दुःखनिवृत्तिः । तत्र केचन चिन्तका मोक्षं दुःखस्याऽभावत्वेन प्रतिपादयन्ति चेत् केचन पुनः सुखरूपत्वेन । यद् वा तद्वा भवतु मोक्षे दुःखन्तु न केनाप्युरीक्रियते, अतस्समेषाञ्च चिन्तकानामैकमत्येन सर्वदुःखत आत्यन्तिकं मोचनमेव मोक्षः । वैदिकचिन्तने‘ऋते ज्ञानान्न मुक्तिः’ इत्याभाणकस्याऽतिरोहितत्वात्तत्त्वज्ञानस्यैव मोक्षहेतुत्वं प्रतिपादितं भवति । प्रसङ्गेऽत्र न्यायशास्त्रे प्रमाणादिषोडशपदार्थानां तत्त्वज्ञाने सति मोक्ष इति स्पष्टीकृतं चेद् वैशेषिके च द्रव्यादिपदार्थानां साधम्र्यवैधम्र्याभ्यां तत्त्वज्ञानादिति । तत्र उभयत्रापि मोक्षे दुःखनिवृत्तिरिति स्वीक्रियते । तत्र दुःखपदेन एकविंशतिधं दुःखं गृह्यते । जागतिकं सुखमपि तत्रैवान्तर्भवति । यद्यपि न्यायवैशेषिकयोर्मोक्षे सुखस्यापि अभावः प्रतिपाद्यते । परं तत्तु संसारगतमादाय, वस्तुतस्तु पारमार्थिकं सुखन्तु तत्रापि स्वीकत्र्तव्यमेव । यच्च नैयायिकप्रवरेण भासर्वज्ञेनाथ च तदवलम्बिभिर्बहुधा बहुशः प्रतिपादितो लभ्यते । न्याये मोक्षस्य कारणत्वेन ज्ञानस्यैव प्रतिपादितत्वेऽपि वैशेषिके तु सूक्ष्मविचारे कृते सति मोक्षार्थं ज्ञानकम्र्मसमुच्चयवादः पुरःस्थाप्यत इत्येव निष्कृष्टिः ।

Downloads

Download data is not yet available.
Abstract
22
PDF
4

Downloads

Published

2024-04-09

How to Cite

Aryal क. K. . (2024). न्यायवैशेषिकदर्शनयोर्मोक्षतत्त्वविमर्शः {The Salvation in the Ancient Logic}. Kaumodaki: Journal of Multidisciplinary Studies, 4(1), 1–11. https://doi.org/10.3126/kdk.v4i1.64538

Issue

Section

Articles