जगदम्बिकावैभवमहाकाव्ये द्वन्द्वविधानम {Conflict Legislation in Jagdambikavaibhav}

Authors

  • प्रकाशपौडेलः Prakash Paudel Department of Sahitya (Sanskrit Literature), Vinduwasini Sanskrit Vidyapeeth (Campus), Pokhara, Nepal

DOI:

https://doi.org/10.3126/kdk.v3i1.52072

Keywords:

आन्तरिकद्वन्द्वम्, काव्यफलम् , बाह्यद्वन्द्वम्, रसाभिव्यक्तिः, सङ्घर्षः

Abstract

प्रस्तुतो लेखः नेपालस्य लुम्बिनीप्रदेशान्तर्गते गुल्मीमण्डले जातेन ‘भीमकान्तपन्थी’ इति नामकेन महाकविना विरचिते ‘जगदम्बिकावैभवम्’ महाकाव्ये द्वन्द्वविधानस्य गवेषणे केन्द्रितो वर्तते । वि. सं. २०४७ तमे वर्षे विरचितं प्रथमवारं वि. सं. २०५५ तमे वर्षे प्रकाशितं पौराणिकीं कथां गृहीत्वा रचितं महाकाव्यमिदं तन्निरूपणे उल्लेखनीयं वर्तते । अत्र तस्यैव महाकाव्यस्य परिचयेन सह गवेषणीयविषयत्वेन जगदम्बिकावैभवकाव्ये द्वन्द्वविधानं कीदृशम् ? इति समस्यामुपस्थाप्य प्रस्तुते महाकाव्ये तदन्वेषणमुद्देश्यरूपेण स्थापितं विद्यते । तस्मिन्नेव व्रmमे प्रस्तुते महाकाव्ये निरूपितमान्तरिकं बाह्यञ्च द्वन्द्वं विस्तरेण विवेचितं वर्तते । अध्ययनमिदं गुणात्मकं किल । अतोऽत्र पुस्तकालयीयया पद्धत्या सामग्रीणां सङ्कलनं विधाय निगमनात्मकेन विधिनाध्ययनं कृतं विद्यते । विषयस्य विश्लेषणे सैद्धान्तिकाधारतया पाश्चाŒयो द्वन्द्वसिद्धान्तो गृहीतोऽस्ति ।  गदम्बिकावैभवमहाकाव्ये प्रस्तुतं पात्रगतमान्तरिकं बाह्यमपि द्वन्द्वं समीक्ष्य तयोः काव्यस्य प्रधानफलसिद्धौ, रसाभिव्यक्तौ, कार्यावस्थायाः निर्वहणे, कथायां रोमाञ्चकतासिद्धये च साहाøयं विस्तरेण प्रदर्शितं वर्तते । कथायां कौतुकवृद्धये रोमाञ्चकतासिद्धये च सफलेन द्वन्द्वेन युक्तं महाकाव्यमिदं द्वन्द्वविधानस्य दृष्ट्या विशिष्टं वर्तते इति निष्कर्षः स्थापितो विद्यते । जगदम्बिकावैभवे द्वन्द्वविधानसम्बद्धायाः जिज्ञासायाः समाधानाय प्रकृतमध्ययनं प्राधान्येन उपयोगि वर्तते तथैव च भविष्यति काव्यान्तरेषु एतत्प्रकारकान्वेषणाय एवमेव पक्षान्तरमाश्रित्य प्रकृतमहाकाव्यस्य समीक्षणाय च सहायकं भवितुं शक्नोति ।

Downloads

Download data is not yet available.
Abstract
31
PDF
28

Author Biography

प्रकाशपौडेलः Prakash Paudel, Department of Sahitya (Sanskrit Literature), Vinduwasini Sanskrit Vidyapeeth (Campus), Pokhara, Nepal

Assistant Professor

Downloads

Published

2023-02-05

How to Cite

प्रकाशपौडेलः Prakash Paudel. (2023). जगदम्बिकावैभवमहाकाव्ये द्वन्द्वविधानम {Conflict Legislation in Jagdambikavaibhav}. Kaumodaki: Journal of Multidisciplinary Studies, 3(1), 1–10. https://doi.org/10.3126/kdk.v3i1.52072

Issue

Section

Articles