अनुवादस्य सैद्धान्तिकस्वरूपम्
DOI:
https://doi.org/10.3126/kdk.v2i1.43161Keywords:
स्रोतोभाषा, स्थानान्तरणम्, सङ्कथनम्, लक्ष्यभाषा, भाषिकसङ्केतः, प्रायोगिकम्, प्रविष्टिःAbstract
यस्यां कस्यामपि स्रोतोभाषायां स्थितानां सामग्रीणां विषयाणां वा तदन्यलक्ष्यभाषासु रूपान्तरणप्रक्रियैवानुवादः ।अनुवादसम्बद्धं शास्त्रमनुवादशास्त्रं कथ्यते । विश्वस्मिन् ज्ञेयविषयान् सम्प्रेषयितुम्, ज्ञानस्य विस्ताराय चानुवादआवश्यकः । अनुवादो विविधाधारेण वर्गीकृतो लभ्यते । तथाऽप्यन्तरभाषिक–भाषान्तरिक–भाषेतरानुवादे हिसर्वेऽपि भेदोपभेदाः सम्मिलिता भवन्ति । अनुवादकार्ये चत्वारि चरणानि भवन्ति । यथा – अनूद्यसङ्कथनपठनम्, तस्यभाषान्तरिकविश्लेषणम्, अनुवादप्रक्रिया अनुवादसङ्घट्टनं वा, लक्ष्यभाषायां सङ्कथननिर्माणञ्चेति । एतेषु चतुर्षु चरणेषुनिर्वाहितेष्वनुवादप्रक्रिया पूर्णा भवति । कुशलेनानुवादकेन सर्वदा मध्य आगताः समस्या निराकृत्य स्रोतोभाषायाः सामग्रीणांलक्ष्यभाषाया निकटे स्थापनाय यतनीयं भवति । अतोऽनुवादो रचनायाः पुनःसंरचनं पुनरुत्पादनं वा मन्यते । अस्मिन्नध्ययनेप्रमुखतयानुवादस्य प्रकारान्, विधीन्, पद्धतीः, मान्यताश्च पुरस्कृत्य तत्सम्बद्धसैद्धान्तिकपक्षस्य च विवेचना कार्या भवति ।
Downloads
120
60