सूत्रेऽनुक्तानां पाणिनिपूर्ववर्तीनां सूत्रोेक्तानाञ्च शब्दशास्त्रकृतां परिचयात्मकमनुशीलनम्

Authors

  • भानुभक्त Bhanubhakta आचार्य Acharya विन्दुवासिनीसंस्कृतविद्यापीठम्,पोखरा

DOI:

https://doi.org/10.3126/awadharana.v8i01.70094

Keywords:

वैयाघ्रपद्य, व्याडि, चाक्रवर्मण, स्फोटायन, कातन्त्रम्

Abstract

पौरस्त्यवाङ्मये शब्दशास्त्रकाराणां वैयाकरणानां परिचयात्मकानुशीलनं सुस्पष्टरुपेण विहितं न मिलति । अस्मिन् गवेषणामूलके लेखे संस्कृतव्याकरणसम्बद्धानां पाणिनिपूर्ववर्तिनां महर्षिणा पाणिनिना अष्टाध्यायीग्रन्थेऽनुक्तानां सूत्रे समुल्लिखितानाञ्च शब्दशास्त्रकाराणां परिचयमूलकं गवेषणं विहितं वर्तते । अष्टाध्या®यां नामाङ्कनरहितानां पाणिनितः पूर्ववतिनां महेश्वरस्य, बृहस्पतेः, इन्द्रस्य, वायोः, भारद्वाजस्य, भागुरेः,पौष्करसादेः,चन्द्रस्य,चारायणस्य, काशकृत्स्नस्य,वैयाघ्रपद्यस्य, माध्यन्दिनेः, रौढेः, शौनकेः, गौतमस्य, व्याडेः, शन्तनोश्चेति सप्तदशसङ्ख्यकानां वैयाकरणनाम्, पाणिनिना सूत्रे स्मृतानां काश्यपस्य, आपिशलेः, गाग्र्यस्य, गालवस्य, चाक्रवर्मणस्य, भारद्वाजस्य, शाकटायनस्य, शाकल्यस्य, सेनकस्य, स्फोटायनस्येति दशसङ्ख्यकानाञ्च व्याकरणकाराणां परिचयात्मकं गवेषणं प्रस्तुते लेखे कृतं वर्तते । अत्र अष्टाध्या®यां नामाड्ढनरहितानां पाणिनितः पूर्ववर्तिनां पाणिनिसूत्रे स्मृतानाञ्च शब्दशास्त्रकाराणां परिचयः कीदृश इति शोधप्रश्नो निर्धारितो वर्तते । उत्तरमपि पुनः पुनः संशोध्य शोधप्रश्नानुसारेणैवानुशीलनं विधाय आलेखोऽयं निर्मितो वर्तते । अस्मिन् परिचयात्मकेऽनुशीलनकर्मणि पुस्तकालयस्य प्रयोगो विहितो वर्तते । सम्बद्धानां विषयाणां विशेषरुपेण अध्ययनाय प्राथमिकस्रोतसा व्याकरणसम्बद्धा ग्रन्था द्वितीयस्रोतस्सामग्रीरुपेण ऐतिहासिकग्रन्थाः प्रयुक्ताः सन्ति । सड्ढलितसामग्रीणां विश्लेषणे निष्कर्षनिष्पादनविधिः प्रयुक्तो वर्तते । अत्र क्वचिद् निगमनात्मकविधिं स्वीकृत्य कुत्रचिच्चागमनात्मकविधेः प्रयोगं विधाय विषयाणां विश्लेषणं मापनं खण्डनं मण्डनञ्च विधाय सत्यापनकार्यं सम्पाद्य लेखोऽयं रचितोऽस्ति । स्रोतस उद्धरणे सन्दर्भाड्ढने च एपिए पद्धतिः प्रयुक्ता वर्तते । पाणिनीये सूत्रे नामाड्ढनरहितानां शब्दशास्त्रकृतां परिचयान्वेषणाय संस्कृतव्याकरणकारसम्बद्धानां ऐतिहासिकग्रन्थानां सम्यगनुशीलनं विहितम् । पाणिनीये सूत्रे स्मृतानां वैयाकरणनां परिचयनिर्धारणार्थं भट्टोजिदीक्षितप्रभृतिविरचिताः कौमुदीग्रन्था अन्विष्टा वर्तन्ते । व्याकरणशास्त्रस्य पठनकर्मणि पाठनकार्ये च संस्कृतविश्वविद्यालयस्य व्याकरणविषयस्य पाठ्यक्रमे संस्कृतव्याकरणकाराणां परिचयमूलकमितिहाससम्बद्धं विषयं निर्धारितमस्ति । पाठ्यसामग्र्यभावेन पाठकाः छात्राश्च काठिन्यमनुभवन्ति । तत्काठिन्यमपहर्तुं शोधमूलकोऽयं लेखः सरलं सहा®यं भवतीति चास्यलेखस्योपलब्धि र्वर्तते । 

Abstract
61
PDF
28

Author Biography

भानुभक्त Bhanubhakta आचार्य Acharya, विन्दुवासिनीसंस्कृतविद्यापीठम्,पोखरा

उपप्राध्यापक

Downloads

Published

2024-09-27

How to Cite

आचार्य Acharya भ. B. (2024). सूत्रेऽनुक्तानां पाणिनिपूर्ववर्तीनां सूत्रोेक्तानाञ्च शब्दशास्त्रकृतां परिचयात्मकमनुशीलनम्. AWADHARANA, 8(1), 80–90. https://doi.org/10.3126/awadharana.v8i01.70094

Issue

Section

Articles