पाणिनीयाष्टाध्याय्यां प्रयुक्तानां पारिभाषिकसूत्राणां परिशीलनम् {An examination of the terminological formulas used in the eighth chapter of the Panini}

Authors

  • प्रकाश Prakash तिवारी Tiwari बाल्मीकि विद्यापीठ, प्रदर्शनी मार्ग, काठमाडौं

DOI:

https://doi.org/10.3126/awadharana.v7i1.49379

Keywords:

विधिः, परिभाषा, अधिकारः, अतिदेशः

Abstract

व्याक्रियन्ते व्युत्पाद्यन्ते असाधुशब्देभ्यो विविच्य साधुत्वेन बोध्यन्ते शब्दा अनेनेतिव्युत्पत्या वि–आङ्–उपसर्गपूर्वकात् करणार्थकडुकृञ्धातोः करणार्थकः ल्युट्प्रत्यययोगेन सिद्ध्यति व्याकरणशब्दः । साधुशब्दज्ञानमेव व्याकरणाध्ययनस्य मुख्यप्रयोजनमस्ति । पाणिनिना व्याकरणग्रन्थस्य पूर्णतायाः कृते अष्टाध्याय्यां सूत्रपाठः, धातुपाठः, गणपाठः (प्रातिपदिकपाठः), उणादिपाठः,लिङ्गानुशासनञ्चेति पञ्चावयवपूर्णस्य व्याकरणशास्त्रस्य रचनाविहिता । सम्पूर्णसंस्कृतवाङ्मये ष्वाचार्यपाणि निकृताष्टाध्यायीमात्रं पञ्चावयवयुक्तो ग्रन्थोऽस्ति । तत्राष्टाध्याय्यां सञ्ज्ञा–परिभाषा–विधि–नियम–अतिदेश–अधिकारभेदात् षड्विधानि सूत्राणि समुपलभ्यन्ते । संज्ञाशास्त्रं व्याकरणशास्त्रेप्रयुज्यमानानि पारिभाषिकपदानि बोधयति । संज्ञासंज्ञिप्रत्यायकं सूत्रं संज्ञासूत्रं कथ्यते । स्वल्पाक्षरयुक्तं सन्देहरहितं सारवद् विस्तृतविवरणसामथ्र्ययुक्तं निरर्थकपदविहीनं दोषरहितञ्च सूत्रं भवति । नियमस्याभावे नियमव्यवस्थापनमेव परिभाषासूत्रस्योद्देश्यं वर्तते । अनियमे नियमकारिणी परिभाषा ।परितः सर्वतो भाष्यन्ते नियमा याभिः ताः परिभाषा इति । अर्थात् यैः सम्पूर्णनियमस्य स्थिरताक्रियतेतानि परिभाषासूत्राणि कथ्यन्ते । परिभाषासूत्रं विधिसूत्रस्याङ्गमस्ति । विधीयते इति विधिः कार्यम्। अप्राप्तौ सत्यां यद् विधीयमानं कार्यं विधिशब्देनोच्यते । लक्ष्यविषयका पूर्वसंस्कारविषयकबोधजनकत्वं विधिसूत्रत्वम् । ज्ञ विधिसूत्रं मुख्यतया द्विविधं भवति । उत्सर्गविधिः, अपवादविधिश्चेति भेदात् । नियमनमिति नियमः । सामान्यप्राप्तस्य विशेषावधारणं वा नियमः । व्याकरणे विधीनां नित्यप्रवृत्तौसत्यां येन नियम्यते स नियमोऽङ्गीक्रियते । द्द  अर्थात् सर्वत्र प्राप्तस्य विधेस्तदितराविषयत्वसङ्कोचनंनियमः कथ्यते । अन्यधर्मस्याऽन्यत्राऽऽरोपणमतिदेशः । घ अतिदेश इववदितिसादृश्य–वाचकशब्दयोः प्रयोगेण साक्षादवगम्यते । अधिकरणमधिक्रियतेऽनेनेति वाऽधिकारः । स्वदेशे लक्ष्यसंस्कारक–वाक्यार्थबोधाजनकत्वे सति विधिशास्त्रै कवाक्यतापन्नलक्ष्यसंस्कारकवाक्यार्थबोधजनकत्वमधि–कारसूत्रत्वमिति वदन्ति वैयाकरणाः । परं यत्र सूत्रैकदेशस्यैवाधिकारः प्रवर्तते तत्र वाक्यार्थबोधजनकत्वंसम्भवति । द्ध अधिकारसूत्रस्य लक्षणं भवति उत्तरोत्तरगमनमधिकारः । तत्र वक्ष्यमाणार्थसङ्क्षेपायकार्यिकार्यनिमित्तानां यदुदीरणं सोऽधिकारः । लेखेऽस्मिन् पाणिनिनाष्टा्ध्याय्यां परिभाषाप्रदानोद्देश्येनविरचितानां पारिभाषिकसूत्राणामेव संक्षिप्तरूपेण विवेचितमस्ति ।

Downloads

Download data is not yet available.
Abstract
82
PDF
109

Author Biography

प्रकाश Prakash तिवारी Tiwari, बाल्मीकि विद्यापीठ, प्रदर्शनी मार्ग, काठमाडौं

उपप्राध्यापक

Downloads

Published

2022-11-10

How to Cite

तिवारी Tiwari प. P. (2022). पाणिनीयाष्टाध्याय्यां प्रयुक्तानां पारिभाषिकसूत्राणां परिशीलनम् {An examination of the terminological formulas used in the eighth chapter of the Panini}. AWADHARANA, 7(1), 83–99. https://doi.org/10.3126/awadharana.v7i1.49379

Issue

Section

Articles