लघुपाणिनीयवैयाकरणसिद्धान्तकौमुदीग्रन्थद्वयदिशा कृत्तद्धितसमासाश्चेति सूत्रार्थसमीक्षणम्

Authors

  • Sunil Upadhyaya नेपालसंस्कृतविश्वविद्यालयः

Keywords:

अनुयोगी, प्रत्ययः, प्रातिपिदकम्, स्फोट

Abstract

व्याकृतिः व्याकरणम् अर्थात् व्याक्रियन्ते व्युत्पाद्यन्ते असाधुशब्देभ्यः विविच्य साधुशब्दाः निष्पाद्यन्ते अनेन इति व्याकरणपदस्य व्युत्पत्तिलभ्य अर्थः ।   अधुना व्याकरणशास्त्रपरम्परायां पाणिनीयपरम्परा एव प्रचलन्ती अस्ति । प्रक्रियानुसारेण व्याकरणस्य अध्ययनाध्यापनक्रमे तत्र वैयाकरणसिद्धन्तकौमुद्यां पञ्चसन्धिं समाप्य षड्लिङ्गस्य आरम्भे प्रातिपदिक संज्ञाविधायके सूत्रे प्रक्रियाग्रन्थे समन्विते । तत्रस्थं प्रथमं "अर्थवदधातुरप्रत्ययः प्रातिपदिकम्" द्वितीयं तु "कृत्तद्धितसमासाश्च" इति । तत्र च -  स्मृतस्योपेक्षानर्हत्वात् स्वादिसन्धौ उपयोगिनी या प्रातिपदिकसंज्ञा, तस्याः विषयेऽत्र चर्चा विधीयते । शब्दा अपि अव्युत्पन्नाः व्युत्पन्नाश्च भवन्ति । व्युत्पन्नशब्दानां प्रातिपदिकसंज्ञाविधानार्थमिदं सूत्रं प्रवर्तते । अस्मिन् व्याकरणे प्रसिद्धा प्रातिपदिकसंज्ञा पारिभाषिकी । अतः प्रातिपदिकसंज्ञाविधानाय अस्मिन् पाणिनीये व्याकरणे द्वे सूत्रे स्तः । प्रथमम् अर्थवदधातुरप्रत्ययः प्रातिपदिकम् इति, द्वितीयञ्च कृत्तद्धितसमासाश्च इति । किमर्थम् एताभ्यां सूत्राभ्यां प्रातिपदिकमिति महती संज्ञा कृता इति प्रश्ने केचित् विद्वांसः अन्वर्थतायै इति वदन्ति । कृत्तद्धितसमासाश्च इति सूत्रे तद्धितान्तानां प्रातिपदिकसंज्ञाविधानेन अप्रत्ययः तन्त्रेणोच्चारित इति ज्ञाप्यते । तेनास्य सूत्रस्यार्थो धातुं प्रत्ययं प्रत्ययान्तं च वर्जयित्वा अर्थवच्छब्दस्वरूपं प्रातिपदिकसंज्ञा स्यात् इत्युक्तम् । अस्मिन् सूत्रे स्थितानां सम्पूर्णाणां समासयुक्तानां पदानां विच्छेदं कृत्वा सरलया गिरा यथामति अत्रानुन्धानात्मके आलेखे व्याख्या विधीयते । एवं प्रकारेण सिद्धान्तकौमुदीग्रन्थानुसारं तथा च लघुपाणिनीयम् इति ग्रन्थानुसारञ्च अस्य सूत्रस्यार्थसमीक्षणम् एवम् बहूनां विषयाणां निरूपणमपि अत्र वर्तते ।  भाष्यकारस्य कतिपयानां मतानामपि सामान्यतया निरूपणमत्र विहितमस्ति । अतः अस्य आलेखस्य विषयः 'लघुपाणिनीयवैयाकरणसिद्धान्तकौमुदीग्रन्थद्वयदिशा कृत्तद्धितसमासाश्चचेति सूत्रार्थसमीक्षणम्' वर्तते । 

Abstract
3
PDF
0

Author Biography

Sunil Upadhyaya, नेपालसंस्कृतविश्वविद्यालयः

अध्यापकः - नव्यव्याकरणम्

Downloads

Published

2026-06-30

How to Cite

लघुपाणिनीयवैयाकरणसिद्धान्तकौमुदीग्रन्थद्वयदिशा कृत्तद्धितसमासाश्चेति सूत्रार्थसमीक्षणम् . (2026). शोधसुधा Shodh Sudha, 4(05), 39-49. https://doi.org/10.3126/ss.v4i05.96266

Issue

Section

Articles

How to Cite

लघुपाणिनीयवैयाकरणसिद्धान्तकौमुदीग्रन्थद्वयदिशा कृत्तद्धितसमासाश्चेति सूत्रार्थसमीक्षणम् . (2026). शोधसुधा Shodh Sudha, 4(05), 39-49. https://doi.org/10.3126/ss.v4i05.96266