न्यायवैशेषिकदर्शनसम्मतप्रमाणमीमांसा
Keywords:
अनुमानम्, उपमानम्, प्रत्यक्षम्, प्रामाण्यम्, शब्दःAbstract
तत्त्वप्रतिपादकवैदिकदर्शने परिगणितस्य गौतमीयन्यायदर्शनस्य कणादप्रणीतस्य वैशेषिकदर्शनस्य च प्रमाणप्रतिपादनसन्दर्भे मूलसिद्धान्तस्य तत्सम्बद्धविषयाणाञ्च गम्भीरान्वेषणपूर्वकं तत्सम्बद्धा मान्यतात्रोपन्यस्ता । प्रमाणपदार्थप्रतिपादकन्यायवैशेषिकदर्शनाभ्यां यथार्थज्ञानोपपत्तौ प्रमाणनामावश्यकत्वं प्रतिपाद्यते । तत्सिद्धान्तानुसारेण ज्ञातुर्ज्ञेयवस्तूनां स्वरूपपरिज्ञानाय प्रमाणतत्त्वस्यावश्यकता अपरिहार्या भवति । केवलं नैयायिकवैशेषिका एव न, अपि तु सर्वे दार्शनिकाः स्वस्वसिद्धान्तस्थापने प्रमाणस्यावश्यकतामवगम्य तज्ज्ञाने यत्नं विहितवन्तः । तत्र न्यायदर्शने प्रत्यक्षानुमानोपमानशब्दभेदेन चत्वारि प्रमाणानि स्वीकृतानि, वैशेषिकदर्शने तु उपमानशब्दयोः पृथक्प्रमाणत्वमस्वीकृत्य प्रत्यक्षानुमानप्रमाणाभ्यां व्यवहारः प्रवर्तत इति कृत्वा प्रमाणद्वयं स्पष्टं निरूपितम् । न्यायदर्शनोक्तचतुर्विधप्रमाणेषु प्रत्यक्षं निर्विकल्पकसविकल्पकोभयविधज्ञानसाधनम् । अनुमानं कार्यकारणभावानुरूपं लिङ्गलिङ्गिनः सम्बन्धज्ञानादप्रत्यक्षवस्तुनिश्चायकम् । उपमानं प्रसिद्धसाधर्म्यात् साध्यसाधनम्, अर्थादज्ञातवस्तुनो यज्ज्ञानं प्रसिद्धसादृश्योपन्यासेन सम्पद्यते तद् । शब्दस्त्वाप्तवाक्यजन्यः, अर्थाद् विश्वसनीयैर्वक्तृभिरुपदिष्टं यद्वचनं तत् शब्दप्रमाणम् । प्रमाणपदनिर्वचनपूर्वकमेतेषां प्रमाणानां स्वरूपसङ्ख्यादिविषये गभीरमध्ययनं विधाय विषयपरिचयः, प्रमाणविषयिकावधारणा केति समस्यानिदर्शनपूर्वकं तदुद्देश्यम्, सैद्धान्तिकपर्याधारः, शोधविधिरित्याद्यनुसन्धानाङ्गान्यवलम्ब्य च सविधि अयमालेखो निर्मितो वर्तते । अनेनालेखेन न्यायवैशेषिकदर्शनाध्येतॄणां कृते प्रमाणस्वरूपं स्पष्टीभवेदिति विश्वासः ।