किरातार्जुनीयमहाकाव्ये काव्यसौन्दर्यम्
Keywords:
अर्थगौरवम्, अलङ्कारः, महाकाव्यसिद्धान्तः, वीररसःAbstract
किरातार्जुनीयमहाकाव्ये काव्यसौन्दर्यस्य प्राचुर्यं संलक्ष्यते । अत्र रसगुणालङ्कारादीनां सौन्दर्यं स्पष्टतया परिलक्ष्यते । संस्कृतवाङ्मये किरातार्जुनीयमहाकाव्यस्य विशिष्टा भूमिका वर्तते । अस्य महाकाव्यस्य रचयिता महाकविर्भारविः । अत्राऽष्टादशसर्गा विद्यन्ते । कालिदासोत्तरकाले षष्ठशतके काव्यमिदं रचितमिति ज्ञायते । अस्य महाकाव्यस्य विषयवस्तु व्यासरचितस्य महाभारतस्य वनपर्वतः शिवपुराणतश्च गृहीतम् । महाकाव्यस्यास्य नायकोऽर्जुनः, नायिका च द्रौपदी । अत्र वीररसः प्राधान्येनाभिव्यज्यते । महाकाव्ये बाहुल्येन वंशस्थवृत्तस्य प्रयोगो दृश्यते । संस्कृतमहाकाव्यपरम्परायां भारविप्रणीतं किरातार्जुनीयमहाकाव्यमद्वितीयं स्थानं विभर्ति । अस्य काव्यस्य प्रधानं वैशिष्ट्यं गाम्भीर्यपूर्णा भाषा, उत्कृष्टाऽलङ्कारयोजनाऽर्थगौरवञ्चेति विद्वद्भिः स्वीकृतम् । 'भारवेरर्थगौरवम्' इति प्रसिद्धोक्त्या तस्य काव्यप्रतिभा सुस्पष्टा भवति । किरातार्जुनीयमहाकाव्यं गुणत्रयसमन्वितत्वाद् भाषासौष्ठवाद् भावगाम्भीर्याद् रसान्वितत्वादलङ्कारालङ्कृतत्वात् कल्पनाप्रचुरत्वाद् रचनानैपुण्याद् विद्वज्जनकण्ठहारत्वमगात् । कृतिरियमर्थगौरवसम्पन्ना । महाकाव्यमिदं भाषागौरवेणालङ्कारवैचित्र्येण रससमन्वयेन च संस्कृतसाहित्ये सर्वोच्चकोटिं प्राप्नोति । अस्य काव्यस्य भाषाऽत्यन्तं गाम्भीर्ययुक्ता वर्तते । महाकाव्यमेतद् दीर्घसमासयुक्तया पदरचनया सूक्ष्मार्थप्रदर्शनया च पाठकानां मनांसि समाकर्षयति । अस्मिन् महाकाव्ये प्रयुक्तैरुपमोत्प्रेक्षा-रूपक-श्लेषादिभिरलङ्कारैः काव्यसौन्दर्यं समेधितमस्ति । विशेषतोऽनुप्रासस्य श्लेषस्य च सुन्दरप्रयोगे काव्यमिदं सफलं प्रतिभाति । काव्ये सर्वत्र वीररसस्य उत्कर्षः संलक्ष्यते । लेखेऽस्मिन् महाकविभारविप्रणीते किरातार्जुनीयमहाकाव्ये काव्यशास्त्रीयं सौन्दर्यं कीदृशमस्तीति विषये विवेचितमस्ति । अत्र महाकवेर्भारवेः परिचयप्रदानपूर्वकं किरातार्जुनीयमहाकाव्यस्य वैशिष्ट्यं च प्रकाशितं विद्यते । संस्कृतमहाकाव्यपरम्परायां किरातार्जुनीयमहाकाव्यस्य काव्यसौन्दर्यं कीदृशमस्तीति विषये लेखेऽस्मिन् पर्यवेक्षणं विहितमस्ति । अनेनाध्ययनेन किरातार्जुनीयमहाकाव्ये काव्यसौन्दर्यसमेधकैस्तत्त्वैश्चमत्कारातिशयं वर्धितमस्तीति निष्कर्षो निस्सार्यते । गुणात्मिकायामनुसन्धानपद्धत्यामाधारितेऽस्मिन्ननुसन्धाने एपीएसप्तमसंस्करणानुसारेण द्वितीयकस्रोतोयुतानां सामग्रीणां संयोजनं कृतं वर्तते ।