धर्मशास्त्रे वर्णिताया दायविभागव्यवस्थायाः समीक्षा
Keywords:
अतिप्रतिबन्धदायः, प्रत्ता, सत्प्रतिग्रहः, सप्रतिबन्धदायAbstract
पितृपितामहादिभ्यः पुत्रपौत्रादिषु यद्धनं आयाति तद्दायशब्देन व्यवह्रियते । सप्त वित्तागमाधर्म्या दायो लाभः क्रयो जयः प्रयोग कर्मयोगश्च सत्प्रतिग्रह एव च इति धर्मशास्त्रीयवचनानुसारेण सम्पत्तिरागमनस्य प्रमुखस्रोतस्सु परम्परया पितृमातृशकासात् प्राप्तं धनं दाय इति कथ्यते। दायो द्विविधः- अप्रतिबन्धः सप्रतिबन्धश्च। पितृणां धनं पुत्रपौत्रादिषु अनायासेन यद्गच्छति तद्भवति अप्रतिबन्धो दायः। पितृव्यस्य भ्रात्रादीनां वा सगोत्राणां उत असगोत्राणां मातुलादीनां वा धनं तेषां पुत्राभावेण यदि आयाति चेत् स प्रतिबन्धदायः। दायविभागश्च पितुः मातुर्वा स्वामित्वे स्थितस्य स्थावरधनस्य जङ्गमधनस्य वा पुत्रेष्वेकस्वामित्वव्यवस्थापनम्। स च पितुः मातुर्वा मरणोपरान्तम्, पितुरिच्छया पुत्रेच्छया वा अवस्थानुसारेण कर्तुं शक्यते । परं केषाञ्चिन्मते पितृमात्र्यादिषु जीवितेषु पुत्रादीनां तत्रेश्वरत्वं न भवतीत्यपि वचनमस्ति, ते प्राहुः- ऊर्ध्वं पितृतो दायविभाग इति । पितृषु उपगतेषु पितृद्रव्याणां पुत्र-पौत्र-प्रपौत्रादिषु चतुर्थवंशपर्यन्तेषु सन्ततिषु अंशभाग्त्वं अर्हतीति। तथा चाचार्याः प्राहुः- पितर्युपगते पित्रोः रिक्थं ऋणादिकं वा समानतया विभज्य पुत्रा गृह्णीयुरिति। दायविभागे ज्येष्ठाय ज्येष्ठभागम्, मध्यमाय तदर्धभागम्, ततोऽनुजेभ्यः तदर्धभागक्रमेण च कँञ्चिद् सम्मानभागं वितीर्य तदवशिष्टं धनञ्च पुनः समभागेन सर्वेषु विभजेद् अथवा सम्मानभागस्य विभाजनं विनैव सकलपुत्रेच्छया दायान् विभक्तुमपि शक्यत इति केषाञ्चन आचार्याणां मतं वर्तते ।