अर्थवत्त्वविमर्शः
Keywords:
अधातुः, अप्रत्ययः, अर्थवत्त्वम्, प्रातिपदिकम्, संज्ञाAbstract
प्रकृतोऽयं लेख: " अर्थवदधातुरप्रत्यय: प्रातिपदिकम्" इति सूत्रम् आधारीकृत्य प्रस्तुतो विद्यते । अस्मिन् लेखे सर्वादौ प्रातिपदिकस्य संज्ञाया: विधायकस्य सूत्रस्य अर्थवदधातुरप्रत्यय: प्रातिपदिकमित्यस्य सङ्क्षेपत: अर्थस्य वर्णनं विधाय तत्र विद्यमानस्य अर्थवत्त्वस्य पदार्थस्य निरूपणं प्राधान्येन प्रस्तुतं विद्यते । तस्य अङ्गत्वेन केचन विषया अन्येऽपि यथा अप्रत्यय इति पदस्य आवृत्ति:, नञ: पर्युदास: अर्थ:, उत प्रसज्य प्रतिषेध:, इत्यादयो विषया: निरूपिता सन्ति। अथ च इह सूत्रे यत् अर्थवत्त्वम् तत्र प्राचीनानां नवीनानां च शाब्दिकानां मते भेदा:, इह सूत्रे उत्तरस्मिन् च सूत्रे एकविधमेव अर्थवत्त्वं स्वीक्रियते, उत अन्यादृशम् इत्यादयो विचारा विचारिता सन्ति । तत्र अर्थवत्त्वस्य निरूपणस्य प्रसङ्गे विविधानां सन्दर्भानां ग्रन्थानां समाश्रयणेन प्राधान्यत: परिष्कारं समवलोक्य परिष्कारोऽयं प्रकाशित इति लेखस्य अस्य मुख्यम् उद्देश्यं विद्यते। विविधेषु व्याख्यानेषु तत् चर्चितम् अपि कठिनत्वात् सारल्यस्य अभावात् च न सुगमतां यातीत्यत: तस्य याथातथ्येन अवगतिरेव एतस्य असाधारणं प्रयोजनं विद्यते । अथ सूत्रे प्रत्येकं पदानां प्रयोजनानि विचारितानि येन प्रतिपदं सूत्रं सार्थकतां गच्छति, एवञ्च अर्थवत्त्वस्य स्वरूपस्य प्राधान्येन निरूपणम्, तस्य व्याजेन च विचारान्तराणामपि विशेषतोविमर्शनेन सूत्रमिदं सर्वत: सुस्पष्टतां याति ।