संस्कृतकाव्यप्रणयनपरम्परायां मङ्गलाचरणस्य महत्त्वम्
DOI:
https://doi.org/10.3126/ss.v2i2.69306Keywords:
आध्यात्मिकम्, निर्विघ्नसमाप्तिः, पौरस्त्यम्, भौतिकम्, मङ्गलाचरणम्Abstract
लोके यस्य कस्यापि सत्कार्यस्य शुभारम्भे निर्विघ्नपरिसमाप्त्यर्थं मङ्गलविधिः क्रियते । गृहनिर्माणे शिलान्यासः, उपनयनविवाहादिकार्ये कुलदेवादीनां पूजनम्, यात्रारम्भे स्तोत्रवाचनम्, कार्यक्रमप्रारम्भे स्वस्तिवाचनम् इत्यादिकं मङ्गलाचरणमेव मन्यते । एतेषां कार्याणां निर्विघ्नतया कार्यसाफल्यं मङ्गलस्य प्रयोजनं भवति । पौरस्त्यकाव्यशास्त्रपरम्परा एव ऋषिमुनिभिः प्रारब्धा ज्ञायते । ते इष्टदेवान् विस्मृत्य किमपि कार्यारम्भं न कुर्वन्ति स्म । ते काव्यशास्त्रादिप्रणयनमपि सत्कार्यमेवेति विचार्य काव्यस्य शास्त्रस्य चारम्भे इष्टदेवस्य प्रार्थनां कुर्वन्ति स्म । इयं परम्परा अद्यावधि प्रचलिता विद्यते । ग्रन्थारम्भे कृतेन भगवत्स्मरणेन काव्यकर्तुर्मनसि दृढविश्वासो जायते यत् भगवतः प्रासादात् कार्यमिदं निश्चप्रचं समाप्यते । इत्यनेन ग्रन्थकर्तुः कृतिरचनायां विलक्षणोत्साहः आविष्क्रियते । निर्विघ्नपरिसमाप्तौ कवेरुत्साह एव प्रथमा सामग्री भवति । पौरस्त्यवाङ्मये रचिता ग्रन्थाः प्रायशो मङ्गलाचरणबद्धा विद्यन्ते । ग्रन्थादौ मङ्लपद्यरचनापरम्परा अद्यावधि प्रचलिता दृश्यते । मङ्गलाचरणमपि रसालङ्कारैः सुसंस्कृतं कमनीयसौन्दर्यजनकं भवति । मङ्गलपद्याद् देवादिविषयकं रतिभावमास्वाद्य पाठका अपि कृतकृत्या जायन्ते । मङ्लाचरणस्य गुरुत्वं विचार्यैव औपचारिकपरीक्षास्वपि मङ्लाचरणपद्यानि प्रश्नत्वेन पृच्छ्यन्ते । एतादृशस्य महत्त्वाधायकस्य मङ्लाचरणस्य दृश्यमदृश्यञ्च महत्त्वं विषयीकृत्य निष्कर्षनिस्सारणार्थं लेखेऽस्मिन् पुस्तकालयस्थितान् प्राथमिकद्वितीयकस्रोतस्सामग्रीरधीत्य विश्लेषणतथ्यापनादिविधीन्नवलम्ब्य निष्कर्षनिस्सारणं करिष्यते ।