पौरस्त्यसाहित्यशास्त्रसम्प्रदायसमीक्षणम्
DOI:
https://doi.org/10.3126/ss.v1i1.59803Keywords:
रसः, ध्वनिः, अलङ्कारः, रीतिः, वक्रोक्तिः, औचित्यम्, सम्प्रदायःAbstract
पौरस्त्यकाव्यशास्त्रस्य विकासपरम्परा प्राचीनतमा विद्यते । कस्यामपि साहित्यपरम्परायां संरचिताः कृतयः साहित्यरसिकजनमनांसि ब्रह्मानन्दसहोदराभ्यन्तरानन्दप्रदा भवेयु इत्युद्दिश्य विद्वद्भिः कृतिनिर्माणे सावधानतया विचारणीया विषया प्रस्तुताः । तादृशा विषयसम्बद्धा ग्रन्था एव काव्यशास्त्रम्इति नाम्ना व्यवह्रियन्ते । संस्कृतसाहित्यशास्त्रेऽपि प्रणेतृजनैः सत्कृतिनिर्माणेऽवलम्बनीया विषयनियमाः समुद्धृता विद्यन्ते । पौरस्त्यकाव्यशास्त्रज्ञैर्विद्वद्भिः शास्त्रीयग्रन्थेषु कृतिस्वरूपनिर्माणसन्दर्भे तत्रावश्यकानां तŒवादीनामपि सविस्तारेण चर्चा विहिता । तेषामेव तत्वानां प्राधान्यविषये बहवो मतभेदाः सञ्जाताः । अस्यैव मतभेदस्य फलरूपेण पौरस्त्यकाव्यशास्त्रे सम्प्रदाय इति नाम्ना विचारसमवायो विकसितः । अधुना पौरस्त्यकाव्यशास्त्रे रससम्प्रदायः, ध्वनिसम्प्रदायः, अलङ्कारसम्प्रदायः, रीतिसम्प्रदायः, वक्रोक्तिसम्प्रदायः, औचित्यसम्प्रदायश्चेति सम्प्रदायरूपेण षट्सङ्ख्यका विचारवर्गाः समुपलभ्यन्ते । अस्मिन् आलेखे पौरस्त्यकाव्यशास्त्रे प्रसिद्धानामेतेषां सम्प्रदायानां विषये चर्चा क्रियते ।