नैषधीयचरितमहाकाव्यस्य प्रथमसर्गस्थानामलङ्काराणां समीक्षणम् {An Analysis of Figures of Speech in Canto-I, Naiṣadhīyacharita}

Authors

  • महानन्दतिमिल्सिना Mahananda Timilsina Department of Sahitya (Sanskrit Literature), Pindeshwar Vidyapeeth (Campus), Dharan, Nepal

DOI:

https://doi.org/10.3126/kdk.v5i1.73643

Keywords:

शब्दालङ्कारः, अर्थालङ्कारः, उपमा, उत्प्रेक्षा, विरोधाभासः

Abstract

कविश्रीहर्षेण विरचितं द्वाविंशतिसर्गेषु विभाजितं नैषधीयचरितमहाकाव्यं संस्कृतसाहित्ये प्रसिद्धम् । अस्मिन् लेखे नैषधीयचरितमहाकाव्यस्य प्रथमसर्गे कीदृशानामलङ्काराणां प्रयोगो विहितोऽस्तीति तथ्यमलङ्कारसिद्धान्तदृष्ट्या समीक्षितमस्ति । विविधरसभावैः समलङ्कृतेऽस्मिन् महाकाव्ये शब्दार्थालङ्काराणां समुचितं संयोजनं प्राप्यते । अस्मिन् लेखे शब्दालङ्कारार्थालङ्कारोपमानोपमेय– प्रस्तुताप्रस्तुतसदृशैरलङ्कारविवेचनसामग्रीभिर्विवेचनपद्धतिमग्रे सारितमस्ति । गुणात्मिकायामनुसन्धान– पद्धत्यामाधारितेऽस्मिन्ननुसन्धाने द्वितीयकस्रोतोयुतानां सामग्रीणां संयोजनं वर्तते । अत्रानुप्रासादीनां शब्दालङ्काराणामुपमोत्प्रेक्षारूपकादीनामर्थालङ्काराणाञ्च प्रयोगस्थितिः पर्यवेक्षिता वर्तते । महाकाव्येऽस्मिन् लोकोत्तरकाव्यचमत्कारो रसपरिपाकः, हृदयावर्जका भावाः, मनोहरा अलङ्कारा मनोहारि पदलालित्यम्, अद्भुतं वर्णनञ्चेत्यादयः गुणगणाः विलसन्ति । कविरसौ स्वाभाविकरूपेणालङ्कारप्रयोगे कुशलः संलक्ष्यते । अत्र प्रयुक्तैरलङ्कारैः कथावस्तु सजीवं प्रतीयते । अलङ्काराः काव्यस्य शोभाकरा धर्मा विद्यन्ते । अत्र प्रयुक्ता अलङ्कारा विषयानुकूलाः संलक्ष्यन्ते । अत्रत्या अलङ्कारा महाकाव्यस्य सौन्दर्यं प्रकाशयितुं भावपक्षं च परिपोषयितुं सफला दृश्यन्ते । अतोऽलङ्कारप्रयोगदृष्ट्या नैषधीयचरितमहाकाव्यस्य प्रथमसर्गः समुचितः प्रतिभाति । अलङ्कारमाध्यमेन पाठकजनान् समाह्लादयितुं सर्गोऽयं सफलः संलक्ष्यते ।

Downloads

Download data is not yet available.
Abstract
23
pdf
9

Downloads

Published

2025-01-07

How to Cite

महानन्दतिमिल्सिना Mahananda Timilsina. (2025). नैषधीयचरितमहाकाव्यस्य प्रथमसर्गस्थानामलङ्काराणां समीक्षणम् {An Analysis of Figures of Speech in Canto-I, Naiṣadhīyacharita}. Kaumodaki: Journal of Multidisciplinary Studies, 5(1), 28–43. https://doi.org/10.3126/kdk.v5i1.73643

Issue

Section

Articles