मेघदूतखण्डकाव्यस्यौचित्यपरकमध्ययनम् Meghdutakhandakavyasyauchityaparakamadhyayanam
DOI:
https://doi.org/10.3126/dristikon.v9i1.31236Keywords:
विप्रलम्भशृङ्गारः Bipralambhasringara, माधुर्यः Madhyarya, अर्थान्तरन्यासः arthantaranyasa, औचित्यम् aauchityam, व्यञ्जकः Byanjaka, चमत्कारः ChamatkaraAbstract
संस्कृतभाषानिबद्धेषु दूतकाव्येषु महाकवेः कालिदासस्य मेघदूताख्यं खण्डकाव्यं प्रसिद्धं विद्यते । मेघः प्रस्तुतकाव्यस्य दूतरुपेण प्रयुक्तोऽस्ति । कुबेरसेवकस्य यक्षस्य सन्देशहरोऽस्ति मेघः । अचेतनमपि मेघं चेत् धर्माशेषेण महाकविना प्रयुक्तो दृश्यतेऽस्मिन् खण्डकाव्ये । खण्डकाव्यमिदं शापहेतुकविप्रलम्भशृङ्गाररसप्रधानमस्ति । खण्डकाव्येऽस्मिन् प्रमुखं रसमुत्कर्षतां नेतुं माधर्युगुणस्य सुप्रयोगो हेतुरस्ति । कथ्यं वस्तुसमधिकंं चमत्कारजनकं विधातुमस्मिन् काव्येऽर्थालङ्काराणां स्थानं समुल्लेख्यं दृश्यते । अर्थालङ्कारेष्वपि प्रसिद्धार्थान्तरन्यासालङ्कारोऽस्ति चमत्कारातिशयजनकः काव्येऽस्मिन् । प्रस्तुतऽस्मिन्नध्ययने मेघदूतखण्डकाव्यस्य परिचयपूर्वकं अङ्गिरसप्रयोगौचित्यविवेचनपुरः सरं तद् व्यञ्जकस्य माधुर्यगुणस्यौचित्यविश्लेषणं, अर्थान्तरन्यासालङ्कारौचित्यञ्चाधीत्य सैद्धान्तिकदृशा रसगुणालङ्कारौचित्यातत् काव्यस्यास्य मूल्यं निरुपितमस्ति ।
Downloads
Downloads
Published
How to Cite
Issue
Section
License
© Research Management Cell, Mahendra Multiple Campus, Dharan