कवेः टीकारामस्य शैलं समालिङ्गति मेघमाला कवितायाः साहित्यिकमनुशीलनम् Kabe Tikaramasya Shailam Samalingati Meghmala kabitaya shatiyakmanushilanm

Authors

  • महानन्द Mahananda तिमिल्सिना Timilsina नेपाल संस्कृत विश्वविद्यालय, पिण्डेश्वरविद्यापीठम्, धरान Nepal Sanskrit University, Pindeshwar Biddhyapeeth, Dharan

DOI:

https://doi.org/10.3126/dristikon.v9i1.31235

Keywords:

अलङ्कारः Alankara, रसः Rasa, गुणः Guna, प्रकृतिः Prakriti, मानवीकरणम् Manabikaranam

Abstract

नैपालकसंस्कृतकाव्यपरम्परायां कवेः टीकारामस्य विशिष्टमवदानं वर्तते । नेपालीभाषायां संस्कृतभाषायाञ्चास्य नैकानि काव्यानि प्रकाशितानि सन्ति । परिष्कृतां प्राञ्जलां च भाषाशैलीमवलम्ब्य संरचितानि विविधेषु विषयेषु विधासु च निर्मितानि कवेः काव्यानि मानवजीवनस्य कृते प्रेरणास्रोतांसि विद्यन्ते । प्रकृतिजगतो वैविध्यं प्रस्तूय तद्वर्णनमाध्यमेन कविना नेपालीसमाजस्य संस्कृतेश्च चित्रणमपि कृतं विलोक्यते ।
प्रस्तुते समीक्षणलेखे कवेः टीकारामस्य ‘शैलं समालिङ्गति मेघमाला’ इति कवितायाः काव्यतत्त्वदृष्ट्या विश्लेषणं कृतमस्ति । कवेः टीकारामस्य २०६४ तमे वैक्रमाब्दे प्रकाशितस्य ‘पद्यपुष्पाञ्जलिः’ इति कवितासङ्ग्रहे विद्यमानासु कवितासु मध्येऽस्मिन् समीक्षणे विवेचनीया कविता सैव वर्तते । अस्यां कवितायां कीदृशा अलङ्काराः प्रयुक्ताः सन्ति, अत्र रसध्वन्यादीनामवस्था कीदृशी, कवितायां गुण–रीति–भाषाशैली–उद्देश्यादितत्त्वानामवस्था कीदृशीत्यादिषु विषयेष्वस्मिन् आलेखे विवेचनं कृतमस्ति । अस्य लेखस्य सामग्रीविश्लेषणक्रमे प्राथमिक्याः सामग्र्या रूपेण कवेः टीकारामस्य कवितासङ्ग्रहस्य विश्लेषणीया कविता सङ्गृहीता तथैव द्वितीयसामग्रीरूपेण विविधैः पौरस्त्यैराचार्यैः प्रतिपादिताः काव्यसिद्धान्ताः प्रयुक्ताः सन्ति । अत्र सामग्रीविवेचने वर्णनात्मकः, विश्लेषणात्मकः, व्याख्यात्मकश्च विधिः प्रयुक्तो विद्यते । विवेचनीयायां कवितायां विविधैः शब्दार्थालङ्कारैः प्रकृतेः सुन्दरं चित्रणं कृतमस्ति । शृङ्गाररसस्य प्रयोगेण कविता सहृदयानां कृते हृदयाह्लादिका वर्तते । मेघमालायाः व्यवहारे मानवव्यवहारस्य समारोपात् मानवीकरणाद्वा कवितेयं प्रभावकारिणी, भावगभीरा च संलक्ष्यते ।

Downloads

Download data is not yet available.
Abstract
104
pdf
107

Author Biography

महानन्द Mahananda तिमिल्सिना Timilsina, नेपाल संस्कृत विश्वविद्यालय, पिण्डेश्वरविद्यापीठम्, धरान Nepal Sanskrit University, Pindeshwar Biddhyapeeth, Dharan

उपप्राध्यापक Deputy Professor

Downloads

Published

2019-12-31

How to Cite

तिमिल्सिना Timilsina म. M. (2019). कवेः टीकारामस्य शैलं समालिङ्गति मेघमाला कवितायाः साहित्यिकमनुशीलनम् Kabe Tikaramasya Shailam Samalingati Meghmala kabitaya shatiyakmanushilanm. Dristikon: A Multidisciplinary Journal, 9(1), 257–269. https://doi.org/10.3126/dristikon.v9i1.31235

Issue

Section

Articles