असाधुशब्दप्रयोगविचारः Asadhushabdaprayogbichar
DOI:
https://doi.org/10.3126/dristikon.v9i1.31227Keywords:
असाधुशब्दःasadhushabda, पाणिनिः Panini, वात्र्तिकम् Bartikam, इष्टिःIshti, शिष्टपरिज्ञानार्थाष्टाध्यायी ShistaparigyanarthastadhyayiAbstract
संस्कृतभाषानिबद्धा भाषिकाध्ययनपरम्परा मूलतो व्याकरणे केन्द्रिता दृश्यते । आचार्यः पाणिनिः, तत्पूर्ववत्र्तिन उत्तरवत्र्तिनोऽपि प्राय आचार्या शब्दसाधुत्वसम्पादनमेव मुख्यं लक्ष्यं मत्वा सूत्रŔवात्र्तिकŔमहाभाष्याणि तद्व्याख्यानानि च रचितवन्तः, तेन माध्यमेन कोटीशः शब्दान् साधुः कृतवन्तस्तथापि वैदिकलौकिकवाङ्मयेषुः, काव्यशास्त्रादिषु, लोकव्यवहारे च तत्तृतीयांशाः शब्दा असाधुः प्रयुज्यन्ते । पाणिनेरुत्तरकालिकैर्वात्र्तिकैः, भाष्यवात्र्तिकैः, इष्टिभिः, श्लोकवात्र्तिकैः, फक्किकाभिः, निपातनतः, बाहुलकात्, समासान्तो विधिरनित्य इति वचनेन, आगमप्रमाणमनित्यमित्युक्त्वा तथाविधैरन्यैरपि बहुभिरुपायैः शब्द साधुत्वसम्पादनायानेके प्रयासाः कृताः, यथासम्भवमुपाया अवलम्बिताश्च, तथाप्यनेकेषां शब्दानामसाधुत्वाद्, व्याकरणशास्त्रस्य साधुत्वसम्पादनŔ प्रयासोऽव्याप्तः । शिष्टपरिज्ञानार्थाष्टाध्यायीति शिष्टानामाभणकं प्रमाणितञ्च । अतः साधुः प्रयोक्तव्यो नासाधुः, साधुभिः पुण्यमसाधुभिश्च पापमिति भेदात्मिकां बुद्धिं परित्यज्य देशकालपरिवेशानुकुलमाधुनिकशब्दग्रहणाय प्रयोगाय च लेखोऽयं परामृशति । आङ्ग्लप्रभृतयो समृद्धा भाषाः साध्वसाधून् लोकप्रचलितान् यथाकथञ्चिदपि शब्दान् गृह्णन्ति, तान् प्रयुञ्जते च अस्मादेव कारणात् द्विसहस्रवर्षस्येतिहासभूतेयंमाङ्लभाषा विश्वस्य सर्वसमृद्धा जाता, परं साधुशब्दप्रयोगगौरवं कुर्वती सत्यपि संस्कृतभाषा प्रतिदिनं सङ्कोचपदं गतवती । अधुना संस्कृतगौरवं नेपालीहिन्दीवङ्गमैथिलिŔप्रभृतिभिस्तज्जन्याभिर्भाषाभिः प्रवद्र्धितमस्ति । तासु भाषास्वपाणिनीयतत्समरूपेण गतास्तत्र प्रयोगरूढभूताश्च कालीनŔविश्रामŔदृष्टिवान्Ŕजागृतप्रभृतयो लक्ष्यशः शब्दाः, संरचनाश्च तास्ता भाषा यावद् जीविष्यन्ति तावत्पर्यन्तं संस्कृतमपि जीवयिष्यन्तीति निश्चितम् । किं तादृश्यः संरचनाः शब्दा“श्चापाणिनीया असाधवश्चेत्युक्त्वा त्यजामः ? यदि न शक्यते चेदाधुनिकाभिः प्रक्रियाभिरथवा उपायान्तरैस्तादृशीनां संचरनानां साधुत्वं विधेयमथवा साधुत्वासाधुत्वयुक्ता धारणैव त्यक्तव्येति लेखसारः ।
Downloads
Downloads
Published
How to Cite
Issue
Section
License
© Research Management Cell, Mahendra Multiple Campus, Dharan