ज्योतिषदर्शने नारीत्वम्

Authors

Keywords:

गर्भावस्था, ग्रहाः, नारी, विकासप्रकिया, सन्ततिः, सृष्ट्याधारः

Abstract

शोधलेखोऽयं सनातनवैदिकपरम्परायां नारीशक्तिस्वरूपस्य गवेषणात्मकं तथा दार्शनिकं विश्लेषणं प्रस्तौति। नारीणां धर्म एव नारीत्वमस्ति । तद् नारीत्वं ज्योतिषदर्शनालोके कथं सिद्ध्यतीत्यत्र विविच्यते । आधुनिकसमाजशास्त्रस्य 'स्त्रीसशक्तीकरणम्' इत्यस्याः परिभाषायाः परिधिमतिक्रम्य तथा च सर्वोपरि नारीत्वमिति वास्तविकं तत्त्वं ग्रहजन्यप्रभावेण विचार्यते ।विशेषरूपेण सृष्टिनिर्माणस्य शक्तिरिति तत्त्वं स्त्रीरूपात्मकंवर्वर्ति सर्वोपरि। अत एव वैदिकवाङ्मये "यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः" इत्यनेन नारीगौरवस्य वैशिष्ट्यमुररीकृत् । किन्तु वर्तमानयुगस्य यान्त्रिकसभ्यतायां नारी केवलं भोग्या अथवा सामाजिकाधिकारस्य पात्रा इव परिगण्यते। शोधोऽयं नारी केवलं भोग्या न अपितु सा सृष्टेराधारभूता चैतन्यशक्तिरिति प्रतिपादयति । उपनिषदां प्रकृतितत्त्वम्, पुराणानां शक्तिसाधनातथा आधुनिकसमाजस्य नारीसङ्घर्षः,इत्येतेषां त्रयाणां ज्योतिषालोकेन समन्वयः कृतः। शोधलेखेऽस्मिन् नारीत्वस्य स्वरूपद्वयम्, एका सृष्टेर्जननी, पालनकर्त्री च, अपरा चण्डिकास्वरूपेण संहारकर्त्रीति विवेचितमस्ति। नारीत्वस्य जैविकपरिधिस्तथा आध्यात्मिकगरिमा इत्यनयोर्मध्ये विद्यमानं सामञ्जस्यमस्य शोधस्य मुख्यं वैशिष्ट्यमस्ति।आधुनिकसमये नारीवादस्य यो दृष्टिकोणोऽस्ति, सः प्रायः पाश्चात्यमूल्यैरनुप्रेरितः। अयं शोधस्तद्विपरीतं पूर्वीयसंस्कृतेरर्धनारीश्वरात्मकदर्शनस्य साहाय्येन प्रतिपादयति यत् पुरुष-स्त्रीशक्त्योः सन्तुलनेनैव समाजस्य, समग्रस्य विश्वस्य च कल्याणं सम्भवति। तस्य कृते  खगोलीयग्रहाणां प्रभावो नार्या मातृत्वगुणैः सह संयोजयति। ज्योतिषशास्त्रानुसारं चन्द्रः (मनसः कारकः), गुरुः (सन्ततिकारकः)तथा शुक्रः (स्त्रीत्वस्य कारकः) इत्येतेषां स्थितिर्नार्या मातृत्वशक्तौ विशिष्टं खलु प्रभावं जनयतीत्यत्र विश्लेषितम्। निष्कर्षेण नार्या मातृत्वगुणः केवलं जैविको न अपितु ग्रहनक्षत्रस्थित्या नियन्त्रित एक आध्यात्मिक ऊर्जाप्रवाहोऽस्ति।

 

Abstract
13
pdf (Nepali)
13

Downloads

Published

2026-08-21

Issue

Section

Research Articles

How to Cite

Dhakal, S. (2026). ज्योतिषदर्शने नारीत्वम्. Sharada Research Journal, 1(2), 155-167. https://doi.org/10.3126/srj.v1i2.99140