याज्ञवल्क्यीया दार्शनिकी दृष्टिः

Authors

Keywords:

अतिप्रश्नः, अनूचानतमः, अन्तर्यामी, अयातयामः, आर्षभूमिः, ब्रह्मिष्ठः, वृत्तिव्याप्तिः, वेदप्रामाण्यवादी, स्वयञ्ज्योतिः

Abstract

अद्वैतवेदान्तस्य समृद्धायां वैदिक्यां दार्शनिकपरम्परायां महर्षेर्याज्ञवल्क्यस्य स्थानमद्वितीयं विद्यते । शोधात्मकेऽस्मिन् लेखे महर्षेर्याज्ञवल्क्यस्य चिन्तनशैली, दार्शनिकी दृष्टिः, तस्य अद्वैतपरो वैचारिको गरिमा च मुख्यविषयत्वेन स्वीकृताः सन्ति । विशेषतो बृहदारण्यकोपनिषदो 'याज्ञवल्क्यकाण्डम्' प्राथमिकस्रोतसामग्रीत्वेन स्वीकृत्य तस्य दार्शनिकदृष्टेर्गभीरां समीक्षां कर्तुमिह प्रयतितमस्ति । सन्दर्भतः प्राप्तानां सैद्धान्तिकतथ्यानां स्मृति-पुराणेतिहासादिग्रन्थानाञ्च अस्मिन्नध्ययने सम्यगुपयोगो विहितोऽस्ति ।

याज्ञवल्क्यस्य तत्त्वनिरूपणशैल्याम्, प्रयुक्तासु युक्तिषु, दृष्टान्तेषु च परवर्तिभ्योऽद्वैताचार्येभ्यः किञ्चिद् वैलक्षण्यं प्रतीयत एव, तथापि अद्वैतस्य मूलसिद्धान्तप्रतिपादनदृष्ट्या अद्वैताचार्येषु न किमपि वैभिन्न्यं वर्तते । प्राक्तनानां परवर्तिनाञ्च समेषामाचार्याणां प्रतिपाद्यमेकमेव पारमार्थिकसत्यमद्वैततत्त्वं खलु । श्रौतसंवाद-स्मृत्यादिग्रन्थानां माध्यमेन आत्मसत्यत्वस्य जगन्मिथ्यात्वस्य च आधारशिलां स्थापयितुं याज्ञवल्क्यस्य योगदानमतुलनीयमाभाति । अस्मिन् शोधलेखे याज्ञवल्क्यस्य दार्शनिकदृष्टेः, परवर्तिचिन्तने तस्याः प्रभावस्य च निरूपणायायासो विहितोऽस्ति ।

अध्ययनमिदमार्षग्रन्थानाम्, उपनिषदाम्, शाङ्करभाष्याणां तथा च परवर्तिनां वेदान्तग्रन्थानां प्रामाणिकसन्दर्भेषु समाश्रितम्, अन्वय-व्यतिरेक-प्रक्रियाभ्यां पाठ्यविश्लेषणेन च युक्तं श्रौप्रमाणपरं वर्तते । विश्लेषणात्मिकां तुलनात्मिकाञ्च पुस्तकालयीयां शोधपद्धतिमवलम्ब्य एतत् सम्पादितमस्ति ।

याज्ञवल्क्येन अन्वयप्रक्रियया “इदं सर्वं यदयमात्मा”, “यः सर्वेषु भूतेषु तिष्ठन्नन्तर्याम्यमृतः” इति ब्रुवता एकत्र सार्वात्म्यभावः निरूपितः, अपरतश्च व्यतिरेकप्रक्रियया “नेति नेति”, “अतोऽन्यदार्तम्” इति कथयता अनात्मप्रपञ्चस्य नश्वरत्वं मिथ्यात्वञ्च साधितम् । जनकस्य ब्रह्मसभायां गवां ग्रहणे “गोकामा वयं स्मः” इति वदता ब्रह्मिष्ठो भूत्वापि दर्शिता निरभिमानता, गार्गी-शाकल्ययोः प्रसङ्गे च पालिता शास्त्रमर्यादा ब्रह्मविद्यायाः प्राप्त्यै शिष्टतायाः अवधानतायाश्च महत्त्वं ख्यापयति । एवञ्च महाभारतस्य शान्तिपर्वणि समागता याज्ञवल्क्यगीतापि अस्य अद्वैतपरं तच्चिन्तनं परिपोषयति ।

अध्ययनादस्मादिदं सुस्पष्टं सिद्ध्यति यद् महर्षिर्याज्ञवल्क्य एव अद्वैतवेदान्तस्य सैद्धान्तिक्याः सरण्या अन्यतमः प्रमुखः आधारस्तम्भ औपनिषदपुरुषस्य मुख्यो व्याख्याता वा अस्ति । तेन प्रतिपादिता आत्मनः स्वयंप्रकाशता, नित्यज्ञानस्वरूपत्वम्, सर्वान्तरत्वम्, तद्ग्रहणे मनसो वृत्तिव्याप्यता, “नेति नेति” इति वाक्येन अनात्मनो निरसनम्, वैराग्योत्पत्त्यनन्तरं सद्यः संन्यासस्य क्रान्तिकारी मार्गश्चैव परवर्तिनां श्रीमदाद्यशङ्कराचार्य-विद्यारण्यमुनि-सदानन्दादीनामद्वैताचार्याणां सिद्धान्तानां मूलं स्रोतः ।

महर्षेर्याज्ञवल्क्यस्य दार्शनिकचिन्तनमद्वैतवेदान्ते “ब्रह्म सत्यं जगन्मिथ्या” इति सर्वमान्यसिद्धान्तस्य स्थापनाय सुदृढां पूर्वाधारशिलां प्रास्थापयत् । तस्य नाम आचार्यवन्दनायां प्रत्यक्षतः अग्रथितमपि तस्य योगदानम् अतुलनीयमस्ति । महर्षेरुपनिषदीया स्मार्ता च इयं वैचारिकी अद्वैतचिन्तनधारा अद्यापि वैश्विकपरिप्रेक्ष्ये अध्यात्मचिन्तकानाम्, वेदान्ताध्येतॄणाम्, मुमुक्षुसाधकानाञ्च कृते शाश्वतमार्गदर्शिका संलक्ष्यते ।

Abstract
3
pdf (Nepali)
0

Downloads

Published

2026-09-01

How to Cite

Timilsina, R. R. (2026). याज्ञवल्क्यीया दार्शनिकी दृष्टिः. Sharada Research Journal, 1(2), 140-154. https://doi.org/10.3126/srj.v1i2.99139

Issue

Section

Research Articles

How to Cite

Timilsina, R. R. (2026). याज्ञवल्क्यीया दार्शनिकी दृष्टिः. Sharada Research Journal, 1(2), 140-154. https://doi.org/10.3126/srj.v1i2.99139