थारूलोकनृत्यानि : एकमध्ययनम्

Authors

Keywords:

थारू-समुदायः, लोकनृत्यम्, लोकसंस्कृतिः, संरक्षणम्, नेपालः

Abstract

प्रस्तुतेऽस्मिन् अनुसन्धानलेखे थारू-समुदायस्य लोकनृत्यानां स्वरूपम्, प्रकाराः, सांस्कृतिकवैशिष्ट्यम्, सामाजिकधार्मिकमहत्त्वं, वर्तमानावस्था, संरक्षणस्य आवश्यकता च सम्यगनुसन्धीयन्ते। अध्ययनस्य प्रमुखोद्देशः थारू-लोकनृत्यानां ऐतिहासिकविकासं, सांस्कृतिकपरम्परायां तेषां स्थानम्, समाजजीवने तेषां योगदानम्, आधुनिकीकरणस्य प्रभावं च विश्लेषयितुमस्ति । अस्मिन्नध्ययने गुणात्मकानुसन्धानपद्धतिरवलम्बिता। द्वितीयकस्रोतोरूपेण प्रकाशितग्रन्थाः, अनुसन्धानपत्राणि, सांस्कृतिकप्रतिवेदनानि, सम्बन्धितसाहित्यं च विश्लेषितम्। अध्ययनात् ज्ञायते यत् थारू-लोकनृत्यानि समुदायस्य सांस्कृतिकपहिचानस्य, सामाजिकैक्यस्य, लोकपरम्परारक्षणस्य च प्रमुखाधाराणि सन्ति । तथापि आधुनिकीकरणस्य, वैश्वीकरणस्य, शहरीकरणस्य, नवमानवसमुदायस्य परिवर्तिताभिरुचेः च प्रभावेण एतानि नृत्यानि विविधानाम्आह्वानानाम् अनुभवन्ति । अतः तेषां संरक्षणाय, संवर्धनाय, व्यवस्थितदस्तावेजीकरणाय, अनुसन्धानविस्ताराय च राज्यस्य, शैक्षिकसंस्थानां, स्थानीयसमुदायस्य च समन्वितः प्रयत्नः परमावश्यकः। एतादृशैः प्रयासैः थारू-लोकनृत्यानां मौलिकपरम्परा भाविपीढीष्वपि सुरक्षितरूपेण संवर्तिष्यते ।

Abstract
0
pdf (Nepali)
1

Downloads

Published

2026-09-01

How to Cite

Chaudhary, M. P. (2026). थारूलोकनृत्यानि : एकमध्ययनम्. Sharada Research Journal, 1(2), 115-129. https://doi.org/10.3126/srj.v1i2.99134

Issue

Section

Research Articles

How to Cite

Chaudhary, M. P. (2026). थारूलोकनृत्यानि : एकमध्ययनम्. Sharada Research Journal, 1(2), 115-129. https://doi.org/10.3126/srj.v1i2.99134