प्रतिमानाटकस्थप्रमुखाणां पात्राणां चरित्रवैशिष्ट्यम्

Authors

Keywords:

प्रतिमा, मर्यादा, पतिव्रता, आर्यपुत्रः, भ्रातृप्रेम

Abstract

प्रतिमानाटकस्थपात्राणां चरित्रचित्रणायैवालेखो व्यापृतो दृश्यते । प्रतिमानाटकं खलु महाकविभासेन विरचितं सुन्दरं प्राचीनं नाटकं वर्तते । अत्र प्रकृतेः सुन्दरता, अनुकरणीयचरित्रचित्रणं, मानवता, वीरत्वं, भ्रातृप्रेम, कर्तव्यपालनत्वञ्चास्मिन्नाटके प्रामुख्येन दर्शितं वर्तते । आलेखसम्पादनाय पुस्तकालयीयमाध्यमेन सामग्रीं सङ्कलय्य तुलनात्मकविश्लेषणविधी मुख्यरूपेणाङ्गीकृतौ स्तः । महाकवेर्भासस्य प्रतिमानाटके प्रमुखाणां पात्राणां चरित्रचित्रणं वाल्मीकीयरामायणकथातोऽपि सुन्दरं, मनोहरं कमनीयञ्चास्ति । प्रमुखाणां पात्राणां मध्ये रामस्यादर्शपुरुषरूपेण, सीतायाश्च मृदुहृदयत्वेन कर्तव्यपरायणत्वेन च चित्रणं विहितम् । लक्ष्मणश्च भ्रातृभक्तः, कैकेयी ऋषिशापवशाद्दुष्टा परन्तु स्वभावत प्रेमयुक्तास्तीति ज्ञायते । नाटकस्य प्रमुखपात्राणां यथोचितचरित्रसम्मेलनेन नाटकं पठनीयं जातमस्तीति चरित्रचित्रणे भासस्य महती सफलतेति निष्कर्षः । अत एव  प्रतिमानाटके पात्राणां रामायणकथातोऽन्यद्रूपेण चित्रितमिति प्रस्तुतं विद्यते। एत एव विषया अस्मिन्नालेखे प्रामुख्येण दर्शिता विद्यन्ते ।

Abstract
0
pdf (Nepali)
0

Downloads

Published

2026-09-01

How to Cite

Bhatta, B. R. . (2026). प्रतिमानाटकस्थप्रमुखाणां पात्राणां चरित्रवैशिष्ट्यम्. Sharada Research Journal, 1(2), 100-114. https://doi.org/10.3126/srj.v1i2.99131

Issue

Section

Research Articles

How to Cite

Bhatta, B. R. . (2026). प्रतिमानाटकस्थप्रमुखाणां पात्राणां चरित्रवैशिष्ट्यम्. Sharada Research Journal, 1(2), 100-114. https://doi.org/10.3126/srj.v1i2.99131