आयुर्दाययोगविवेचनम्
Keywords:
कक्षाह्रासः, कक्षावृद्धिः, गोलीयनियामकः, मारकेशः, होरालग्नम्Abstract
आयुषो दाय आयुषो दानं वेत्यायुर्दायः । यस्य कस्यापि जातकस्य जन्मलग्नकुण्डल्यां निर्दिष्टग्रहाणां राशिभावस्थितिवशात् प्राप्त आयुषो भागविशेष एवायुर्दायः । दीर्घ-मध्याल्पभेदाद्योगोऽयं त्रिविधः । आयुर्दाययोगविवेचनमिति शीर्षकमवलम्ब्य लिखितेऽस्मिन् लेखे परम्परीण-वैज्ञानिकयोर्द्वयोरपि शोधविध्योरुपयोगो विहितोऽस्ति । जातकशास्त्रेषु वर्णितानामायुर्दाययोगसम्बद्धमतानां विश्लेषणाय मुख्यरूपेण वैज्ञानिकशोधविधेर्वर्णनात्मक-विश्लेषणात्मक-तुलनात्मकपद्धतीनां प्रयोगः कृतोऽस्ति । आयुर्दायहीनो जनो जीवने किमपि शुभमशुभं वा फलं भोक्तुमसमर्थो भवति । अतस्तेषामायुर्दायहीनानां जनानां कृते दृष्टराजयोगप्रभृतिविशिष्टयोगादीन्यपि निष्फलानि भवन्ति । जातकशास्त्रस्य नियमानुसारेण यस्य कस्यापि जातकस्य पूर्वमायुः परीक्ष्य ततः पश्चात् प्राप्तस्यायुर्दायस्यैव शुभाशुभयोगलक्षणं विचार्यते । तदाधारेणैव फलविश्लेषणं विधीयते । जन्मलग्नकुण्डलीस्थग्रहस्थित्याधारेण यस्य कस्यापि जातकस्य दीर्घ-मध्याल्पायुर्दाययोगा निर्धार्यन्ते । ज्योतिषजगत्यायुर्दाययोगनिरूपणे जैमिनिमतमत्यन्तं प्रामाणिकं मन्यते । तन्मतानुसारेण जातकस्य दीर्घ-मध्याल्पायुर्दायभेदेन त्रिविधा आयुर्दाययोगा भवन्ति । ते योगा मुख्यरूपेण जातकस्य जन्मलग्नकुण्डल्यां लग्नेशाष्टमेशयोश्चरस्थिरद्विस्वभावराशिस्थितिवशाद् विचार्यन्ते । यथा लग्नेशाष्टमेशाभ्यामायुर्दाययोगविचारः क्रियते तथैव शनिचन्द्राभ्यां लग्न-होरालग्नाभ्याञ्च विधीयते । प्रकारत्रयेण यो योगः समागच्छति स एव सम्बद्धजातकस्यायुर्दाययोगो भवति । प्रकारद्वयेन प्राप्तयोगोऽपि गृह्यते । परमायुर्दाययोगनिरूपणक्रमे प्रकारत्रयेण पृथक् पृथगायुर्दाययोगा दृश्यन्ते चेत्तदा लग्न-होरालग्नाभ्यां समागत आयुर्दाययोग एव प्रामाणिको भवति । तत्रापि सम्बद्धजातकस्य जन्मलग्नकुण्डल्यां लग्ने सप्तमे वा चन्द्रे स्थिते सति शनिचन्द्राभ्यां प्राप्तयोगः प्रामाणिको मन्यते । प्रकारत्रयेण समानरूपेण प्राप्तस्य दीर्घायुर्दाययोगस्य मध्यमायुर्दाययोगस्य च वर्षप्रमाणं सर्वाधिकं भवति । प्रकारद्वयेन प्राप्तस्य दीर्घायुर्दाययोगस्य मध्यमायुर्दाययोगस्य च वर्षप्रमाणं मध्यमं भवति चेदेकेन विशिष्टनियमेन प्राप्तस्य दीर्घायुर्दाययोगस्य मध्यमायुर्दाययोगस्य च वर्षप्रमाणं न्यूनतमं भवति । परं प्रकारत्रयेण समानरूपेण प्राप्तस्याल्पायुर्दाययोगस्य वर्षप्रमाणं सर्वाल्पं भवति । प्रकारद्वयेन प्राप्तस्याल्पायुर्दाययोगस्य वर्षप्रमाणं मध्यमं भवति चेदेकेन विशिष्टनियमेन प्राप्तस्याल्पायुर्दाययोगस्य वर्षप्रमाणमधिकतमं भवति । योगकारकग्रहस्य भिन्नत्वेनापि प्राप्तस्यायुर्दाययोगस्य कक्षाह्रासवृद्धिर्भवति ।