'सुध्युपास्यः' इति रूपविमर्शः
Keywords:
सम्प्रसारणम्, यण्, पूर्वरूपम्, हलःAbstract
नापूर्वमिदं वचो यत्शास्त्रस्मरणपूर्वकं तदनुसन्धानपुरस्सरञ्च कृतः साधुशब्दप्रयोग एव विशिष्टं फलं जनयतीति । तथा च प्रमाणम्–‘एकः शब्दः सम्यग्ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवतीति’ (पतञ्जलिः, सन् २०२३,पृ.८४) श्रुतिरेव । तत्र च शब्दसाधुत्वविषयकविचिकित्सायां मुनित्रयोक्तिरेव प्रमाणपदवीमधिरोहति, नान्यदिति सूत्रवार्तिकभाष्यानुगुणं तत्तत्प्रयोगानुसन्धानं शब्दसाधुत्वज्ञानाय सर्वादौ विधेयम् । तदेव च निखिलसाधुशब्दान्वाख्यानोपयोगीत्यत्र नास्ति विप्रतिपत्तिलेशोऽपि । अत एव च श्रुतौ शास्त्रान्वितत्वांशो प्रविष्टः । तथा च लेखेऽस्मिन् व्याकरणशास्त्रानुसारं "सुध्युपास्य:" इति रूपस्य साधुत्वमवलोक्यते । तथा हि 'सुधीभिरुपास्य:' इति विग्रहे 'सुधी उपास्य' इत्यत्र यण्णिष्यते, परन्तु तं प्रबाध्य "सम्प्रसारणाच्च" (पा.सू ६ ।१ ।१०८) इति पूर्वरूपं प्राप्नोतीति लोके मुहुर्मुहु: प्रयुज्यमान:'सुध्युपास्यः' इति यण्घटितप्रयोग: कथं शास्त्रान्वित इति संशयः समुदेति । तद्वारणोपाय एवात्र लेखे विस्तरेण विचारितो वर्तते । तत्र सर्वादौ सामान्यतः रूपसिद्धिं प्रदर्श्य तदन्वाक्षेपपुरस्सरं समाधानमत्र निगदितं वर्तते । मनोरमायां केचन विषयाः विषयेऽस्मिन्विचारिताः, ते सर्वादौ समुपस्थाप्य ततः शब्दरत्नोक्तदिशा विचारितं वर्तते । ततः चित्रप्रभाख्यटीकानुसारं विषयेऽस्मिन्विचाराः समुपस्थापिताः, यत्र ‘हलः’ (पा.सू ६ ।४ ।२) इति सूत्रस्य वैयर्थ्यप्रतिपादनपूर्वकं ज्ञाप्यांशत्रयं निगदितं वर्तते, येन ‘शकह्वर्थम्’‘परिव्यर्थम्’ इत्येतच्छमशीले‘सुध्युपास्यः’ इत्यादौ स्थानिवद्भावेन सम्प्रसारणत्वमादाय “हलः” इति दीर्घसिद्धिः, “सम्प्रसारणाच्च” इति पूर्वरूपाभावश्च सिद्ध्यति ।