दुर्गासप्तशत्यन्तर्गतदेवीकवचस्य तिङन्तपदानां शब्दशास्त्रीयविचारः
Keywords:
धातुः, सकर्मकः, अकर्मकः, परस्मैपदम्, आत्मनेपदम्Abstract
श्रीदुर्गासप्तशत्यन्तर्गतदेवीकवचे प्रयुक्तानि तिङन्तपदान्यस्मिन्नालेखे विमृश्यन्ते । देव्युपासकैर्भगवत्या दुर्गादेव्याः समाराधनप्रसङ्गे श्रीदुर्गासप्तशती पठनीया । तत्र सप्तशतीमूलपाठात्पूर्वमेव वाराहपुराणोक्तहरिहरब्रह्मविरचितदेवीकवचपाठस्य विधिर्निर्दिष्टः । कवचेऽस्मिन् षट्पञ्चाशत्श्लोकाः सङ्गृहीताः । तेषु विविधानि तिङन्तपदानि प्रयुक्तानि । देवीकवचे पाणिनीयव्याकरणाभिमततिङन्तपदप्रयोगपक्षः कीदृशोऽस्तीति मुख्यसमस्यामुद्भाव्य तिङन्तपदानामन्वेषणं व्युत्पत्तिप्रदर्शनञ्च विधाय तानि पाणिनीयव्याकरणसम्मतानि सन्ति न वेत्यालेखेऽस्मिन् विचारितानि । गुणात्मिकां दृष्टिमवलम्ब्य विहितेऽस्मिन्ननुसन्धाने पुस्तकालयात् प्रविधिमाध्यमेन च सामग्रीन् सङ्कलय्य देवीकवचान्तर्गतानां तिङन्तपदानां व्युत्पत्तिप्रदर्शनेऽर्थापने च विश्लेषणात्मकविधेः प्रयोगो विहितः । पाणिनीयव्याकरणमत्रानुसन्धाने सैद्धान्तिकाधारत्वेन गृहीतम् । शब्दशास्त्रमस्य व्याकरणस्यापरं नाम । धातोस्तिङ्प्रत्यये कृते तिङन्तपदानि निर्मीयन्ते । अत्र देवीकवचे प्रयुक्तानां तिङन्तपदानामुपदेशावस्थायां के धातवः ? कस्तावत्तेषामर्थः ? दशगणेषु कस्मिन् गणे उपदिष्टः ? पदञ्च तेषां किम् ? सकर्मकोऽकर्मको वा ? को लकारः ? पुरुषवचने च के ? कैश्च सूत्रैः कथञ्च सिद्धिर्भवतीति चास्मिन्नालेखे निरूप्यते । तत्र कस्मिन्नर्थे लकारो विहितोऽस्ति– कर्तरि कर्मणि भावे वा ? कर्तरि विहितस्य तिङन्तपदस्य कर्मणि भावे वा कीदृशं रूपं सम्भवति ? कर्मणि भावे वा लकारविधाने सति निष्पन्नस्य तिङन्तपदस्य कर्तरि किं रूपमिति च यथामति विचार्यते । चान्ते समुद्भावितसमस्यानिराकरणार्थं देवीकवचान्तर्गतश्लोकस्थतिङन्तपदानां व्युत्पत्तिविश्लेषणं विधाय सप्रमाणं कवचेऽस्मिन् प्रयुक्तेषु त्रिंशत्पदानि पाणिनीयसूत्रैः सिद्धानि परन्तु श्रृणुष्व, रक्षसे, त्राहीति त्रीण्यपाणिनीयानि तिङन्तपदानि प्रयुक्तानि, तान्यपाणिनीयसिद्धत्वेऽप्यार्षत्वात् साधुत्वेन स्वीकर्तव्यानि भवन्तीति निष्कर्षः संस्थापितः । तिङन्तपदशिक्षणे दुर्गासप्तशत्यन्तर्गतदेवीकवचस्थतिङन्तपदयुक्तश्लोकानामुदाहरणरूपेण प्रयोगे छात्राणां रुचिवर्धकं व्यावहारिकञ्च भविष्यतीत्यपेक्ष्यते ।