ब्रह्माद्वैतवादेऽज्ञानस्वरूपविमर्शः
Keywords:
अद्वैतवादः, अविद्या, ज्ञानविरोधि, अनिर्वचनीयम्, अध्यासःAbstract
उपनिषत्सु प्रतिपादितो दर्शनसिद्धान्त एव ब्रह्माद्वैतवादः । वेदोपनिषद्ब्रह्मसूत्रगीतापुराणानां यत् सत्यं यद् हार्दं तदेव नवनीतवद् भगवता शङ्कराचार्येण स्थापितोऽयं दर्शनसिद्धान्तः । वेदोपनिषदादीनां व्याख्यातॄणां भिन्नभिन्नदृष्टिभाक्त्वादनेके सिद्धान्ता द्वैताद्वैतविशिष्टाद्वैतादिनामानो वेदान्तदर्शनजगति स्थापिताः सन्ति । सर्वेषां दार्शनिकानां विचारे द्वैतगन्धो नैव सर्वथापाकृतोऽस्तीति पश्यन्तो मनीषिणः शाङ्करमद्वैतमेवोपनिषत्सिद्धान्तसारतया मन्यन्ते । बहुषु विद्याकेन्द्रेषु शाङ्कराद्वैतवादस्यैव स्वीकारो दृश्यते । भगवता गौडपादाचार्येण विकासमुपनीतस्य ब्रह्माद्वैतवादस्यैतस्यैव प्रशिष्याचार्येण शङ्करेण सुव्याख्यातः सुप्रचारितः प्रतिष्ठापितश्च विश्वस्मिन्नपि विश्व इति । तदनुसारं ब्रह्म सत्यं जगन्मिथ्या ब्रह्मैव परमार्थसत्यं तच्च सच्चिदानन्दस्वरूपं सर्वथानवच्छिन्नमपरिमितं चिन्मात्रं मायोपाधिवशादेव सृष्ट्यादिकर्तृत्वेनजीवेश्वरजगद्रूपेण चावभासते । वस्तुतस्तु जगज्जीवेश्वरादयः स्वप्नदृष्टवस्तुजालवदसत्यभूता एव । समुदिते ज्ञाने त्वेकमेवापरिमितं चिन्मयं ब्रह्मावशिष्यतेऽयमेव ब्रह्माद्वैतवादः । अस्मिन् सिद्धान्तेऽज्ञानस्वरूपं कीदृगिति विषयमुपालम्ब्यालेखोऽयं विकासं नीतो वर्तते । भौतपुस्तकालयतः साञ्जालिकपुस्तकालयतश्च सामग्रीसङ्कलनं विधाय विषयविश्लेषणं कृत्वाऽऽलेखोऽयं सज्जीकृतोऽस्ति । अत्र नूतनः सिद्धान्तः प्रतिपादितो नास्ति, अपि तु विदुषां पूर्वस्थापिताः सिद्धान्ताः विश्लिष्टाः सन्तीत्यालेखोऽयं निगमनात्मको विद्यते । अत्राद्वैतवादिभिर्विद्वद्भिरनेकैः प्रतिपादिता अज्ञानसम्बद्धसिद्धान्ता विश्लेषणपद्धत्या उपस्थापिताः सन्ति । सर्वेषां मतविश्लेषणानन्तरं वस्तुतोऽज्ञानस्य स्वरूपं कीदृशमस्तीति निष्कर्षोऽत्रोपस्थापितो विद्यते ।