अद्वैतद‌र्शनसम्मतपञ्चकोशसिद्धान्तविवेकः

Authors

Keywords:

अन्नमयकोशः, प्राणमयकोशः, मनोमयकोशः, विज्ञानमयकोशः, आनन्दमयकोशः

Abstract

अद्वैतदर्शनान्तर्गतायां तैत्तिरीयोपनिषदि प्रतिपादितः पञ्चकोशसिद्धान्तः पौरस्त्यदर्शनस्यैवैकाऽद्वितीया दार्शनिक्यवधारणा विद्यते । इयञ्चावधारणा मानवीयमस्तित्वं खल्वन्नमय-प्राणमय-मनोमय-विज्ञानमयाऽऽनन्दमयाख्यैः पञ्चसङ्‌ख्यकैरावरणैराच्छादितमिति विश्लेषयति । अयञ्च सिद्धान्त आत्मन उपाधिभेदस्य च प्रतिपादनपूर्वकमात्मसाक्षात्कारस्य क्रमबद्धं मार्गं प्रस्तौति । यद्यप्यस्मिन् विषये नैके ग्रन्था: समुपलब्धास्तथाप्यद्वैतदर्शदृशा व्यवस्थितमध्ययनमपेक्षाकृतं सीमितमेवोपलभ्यते । प्रस्तुतमेतदध्ययनं गुणात्मक-विश्लेषणात्मक-तुलनात्मकशोधपद्धतावाधारितमस्ति । अत्र च विशेषतया तैत्तिरीयोपनिषद्,शाङ्करभाष्यम्, वेदान्तसार:, विवेकचूडामणि:, पञ्चदशी चेत्यादि वेदान्तग्रन्थानामध्ययनमवलोकनमनुसन्धानं वा विहितमस्ति।अध्ययनेनैतेनैतत् स्पष्टमभूत्- वस्तुतः पञ्चकोशाः खल्वात्मनो नैव वास्तविकस्वरूपा अपि त्वविद्याजन्योपाधिभूताः सन्तीति । प्रस्तुतानामेतेषां पञ्चकोशानामतिक्रमणेनैतत्पञ्चावरणभङ्गेन वात्मसाक्षात्कार एव मोक्षस्यानिवार्यं साधन‌मस्ति ।अन्नमयस्थूलशरीरादभ्यन्तरः शरीरसञ्चालनशक्तिरूपप्राणमयकोशः, प्राणमयकोशादभ्यन्तरः कर्तृरूपमनोमयकोशः, मनोमयकोशादभ्यन्तरो भोक्तृरूपविज्ञानमयकोश:, विज्ञानमयकोशादभ्यन्तर: कारणाज्ञानरूपानन्द‌मयकोशश्चात्मतत्त्वाव रकरूपाः पञ्चकोशाः सन्ति । तेषां पञ्चानामपि कोशानामधिष्ठानरूपेण साक्षिस्वरूपेण च सर्वोपाधिविवर्जितो नित्यशुद्ध‌बुद्धमुक्तस्वभावः स्वयंप्रकाशो बोधस्वरूप आत्मा विद्यते, तदात्मविज्ञानादेव कर्तृत्वभोक्तृत्वप्रमातृत्वरूपः संसारो विलीयते, स्वात्मन्यवस्थारूपामृतलाभो भवतीत्यद्वैतदर्शनसम्मतः सिद्धान्तोऽत्र निस्सारित:पञ्चकोशसिद्धान्तोऽयमद्वैतदर्शनात्मविद्यायाः प्रमुखाधारोऽस्ति, अयञ्च मानवव्यक्तित्वस्य चेतनाशक्तेस्तथा समग्रोन्नयनस्य कृते सार्वकालिकीं दार्शनिकीं संरचनामुपस्थापयति । शास्त्रीयप्रमाणाश्रितत्वात् तर्कसङ्गव्याख्याविश्लेषणत्वात् समकालीनोपयोगित्वाच्चायं सिद्धान्तोऽधुनापि बौद्धिकदृष्ट्या व्यावहारिकदृष्ट्‌या च सान्दर्भिक:, प्रासङ्गिकः, सार्वकालिकश्चेति निष्कर्षः ।

Abstract
0
pdf (Nepali)
1

Downloads

Published

2026-09-01

How to Cite

Ghimire, U. (2026). अद्वैतद‌र्शनसम्मतपञ्चकोशसिद्धान्तविवेकः. Sharada Research Journal, 1(2), 13-28. https://doi.org/10.3126/srj.v1i2.99120

Issue

Section

Research Articles

How to Cite

Ghimire, U. (2026). अद्वैतद‌र्शनसम्मतपञ्चकोशसिद्धान्तविवेकः. Sharada Research Journal, 1(2), 13-28. https://doi.org/10.3126/srj.v1i2.99120