संस्कृतकाव्यशास्त्रे रससिद्धान्तसमीक्षणम्
DOI:
https://doi.org/10.3126/pj.v5i8.73798Keywords:
अनुभावः, रससिद्धान्तः, विभावः, सञ्चारिभावः, स्थायिभावःAbstract
संस्कृतकाव्यशास्त्रपरम्परायां रससिद्धान्तः सकलानामपि काव्यसिद्धान्तानां शिरोमणिरूपेण विराजितो वर्तते । रससिद्धान्तस्य चिन्तनपरम्परा अतीव प्राचीनतमा संलक्ष्यते । रससिद्धान्तः गुणालङ्काररीतिवक्रोचित्य– सिद्धान्तेषु लोकप्रियो व्यापकश्च विद्यते । गुणालङ्कारादयोऽन्ये सिद्धान्ता रससिद्धान्तस्यैव परिपोषकाः प्रतीयन्ते । काव्यशास्त्रपरम्परायां रससिद्धान्तस्तु काव्यसिद्धान्तस्य पर्यायरूपेणैव विराजितो वर्तत । रससिद्धान्तस्य प्रवर्तकः प्रथमशताब्द्यां जातो भरतमुनिरेव । भरतेन स्वकीये नाट्यशास्त्रे ‘विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः’ इति सूत्रं प्रतिपादितम् । एतद् रससूत्रं पश्चाद्वर्तिभिर्भट्टलोल्लट- प्रभृतिभिर्विद्वद्भिव्र्याख्यातम् । रसशब्दस्य प्रयोगस्तु वैदिककालादेव जातो दृश्यते । रसशब्दः शृङ्गारविषवीर्यादिविविधेष्वर्थेषु प्रयुक्तोऽस्ति । संस्कृतकाव्यशास्त्रे तु शृङ्गारादौ रसशब्दः प्रसिद्धः । रस्यते आस्वाद्यते इति रसः, रसनं रसः आस्वाद इति व्युत्पत्तिद्वयं साहित्यिके रसशब्दे प्रचलितं सान्दर्भिकञ्च । भरतमुनिपश्चाद्वर्तिभिराचार्यैरानन्दवर्धन-भट्टलोल्लट-शङ्कुक-भट्टनायकाभिनवगुप्त-मम्मट-विश्वनाथ- जगन्नाथादिभिराचार्यै रसस्य विस्तरेण विवेचनं कृतम् । तदनन्तरं रुद्रटादय आचार्या अपि रसस्य महत्तां प्रतिष्ठापयन्तः काव्ये रसस्यावश्यकतामुद्घोषयन्ति । ध्वनिवादी आनन्दवर्धनाचार्योऽपि रसं व्यङ्ग्यं स्वीकृत्य वस्त्वलङ्काररसध्वनीनां चर्चां विधाय काव्ये रसध्वनेरुत्कृष्टतां प्रतिपादयति । आचार्य विश्वनाथः रसात्मकं वाक्यं काव्यं कथयन् रसं काव्यस्यात्मरूपेण विवेचयति । पण्डितराजो जगन्नाथोऽपि स्वकीये रसगङ्गाधरग्रन्थे दार्शनिकदृष्ट्या रसस्य सूक्ष्मरूपेण विवेचनं विदधाति । अस्मिन् लेखे पौरस्त्यकाव्यशस्त्रिभिः प्रतिपादितस्य रसतत्त्वस्य विवेचनं विहितमस्ति । लेखोऽयं गुणात्मिकायामनुसन्धानपद्धत्यामाधारितो विद्यते । अस्मिननुसन्धाने द्वितीयकस्रोतयुतानां सामग्रीणां संयोजनं वर्तते ।