विष्णुधर्मोत्तरपुराणे काव्यतत्त्वम्
DOI:
https://doi.org/10.3126/pj.v5i8.73795Keywords:
अलङ्कारः, काव्यम्, काव्यशास्त्रम्, पुराणम्, नाटकम्, रसःAbstract
विश्ववाङ्मये संस्कृतवाङ्मयं सर्वप्राचीनं मन्यते । अत्र श्रुतिस्मृतिपुराणमयी यादृशी सम्पत्तिर्विद्यते तादृशी अन्यत्र भाषावाङ्मयेषु दुर्लभा एव ज्ञायते । श्रुतिसाहित्यस्यावज्ञाने काठिन्यमनुभूयते । तस्य परिबोधने ब्राह्मणोपनिषदारण्यका ग्रन्था विकसिताः । तेषामपि ज्ञानवञ्चिता जिज्ञासवः सरलतया प्रतिपादितान् पुराणग्रन्थानधीत्य तत्र स्थितान् सुबोध्यान् कथादिकान् संश्रुत्य वा अनायासेन ज्ञानवैभवमाप्नुवन्ति । तत्र सुपात्रैः संयोजितासु कथासु प्रतिपादितान् ब्रह्मविद्यादिगभीरज्ञानविषयान् सामान्यजना अपि सारल्येन जानन्ति । तस्मात् पौरस्त्यसाहित्यपरम्परायां पौराणिकग्रन्थानां महत्त्वमन्यूनं वरीवर्ति । एतत्क्रमे काव्यशास्त्रस्य जटिलविषया अपि पौराणिकग्रन्थे प्रतिपाद्य जनसाधारणानां कृतेऽपि सुबोध्याः कृता विद्यते । प्रसङ्गेऽस्मिन् प्रथमतोऽग्निपुराणमायाति । महापुराणेऽस्मिन् प्रायः सर्वे काव्यशास्त्रीयविषयाः प्रतिपादिताः सन्ति । तदनु विष्णुधर्मोत्तराख्ये उपपुराणे काव्यशास्त्रीयविषयाः प्रतिपादिता लभ्यन्ते । अधुना नेपालसंस्कृतविश्वविद्यालयेन साहित्यविषयस्य शास्त्रीस्तरीयपाठ्यक्रमे विष्णुधर्मोत्तरपुराणस्य काव्यशास्त्रीयांशस्य पाठ्यवस्तुत्वेन स्थापितत्वात् सान्दर्भिकमिति विचार्यास्यांशस्यात्र विवेचनं क्रियते । पुराणेऽस्मिन् प्रतिपादिताः केचिद् विषयाः काव्यशास्त्रीयग्रन्थे विवेचितेषु विषयेषु साम्यं भजन्ते । कतिचिद् नूतनत्वं प्रकाशयन्ति । अतोऽत्र के काव्यशास्त्रीयविषयाः प्रतिपादिताः सन्ति ? तेषां काव्यशास्त्रीयग्रन्थैः सह कीदृशः सम्बन्धः ? इत्यादिविषयं विश्लिष्य तथ्यनिस्सारणं क्रियते । अध्ययनेऽस्मिन् पुस्तकालयीयसामग्रीमुपयुज्य काव्यशास्त्रपुराणयो विवेचितान् काव्यशास्त्रीयविषयान् विनिभाल्य तुलनात्मक-विश्लेषण-व्याख्यात्मकविधिभिः समधीत्य विष्णुधर्मोत्तरपुराणस्य काव्यशास्त्रीयांशस्य अन्य काव्यशास्त्रीयग्रन्थेषु सम्बन्धात्मकं तथ्यं निष्काष्यते ।