नेपालदेशीयपञ्चाङ्गपत्रे मुहूर्तमार्तण्डस्य संस्कारप्रकरणोक्तानां संस्काराणां मुहूर्ताध्ययनम्

Authors

  • अम्बरराज Amber Raj ढकालः Dhakal ने. सं. वि. : पिण्डेश्वरविद्यापीठम्, धरान

DOI:

https://doi.org/10.3126/pj.v5i8.73794

Keywords:

अन्नप्राशनमुहूर्तः, कर्णवेधमुहूर्तः, गर्भाधानमुहूर्तः, नेपालदेशीयपञ्चाङ्गम्, मुहूर्तमार्तण्डः, व्रतबन्धमुहूर्तः

Abstract

सनातनसंस्कारप्रिये नेपालदेशीये हिन्दूसमाजे जनानां प्राग्जन्मसंस्काराः शिशुसंस्काराः बाल्यसंस्काराश्च प्रयोजनहीनसदृशाः विलुप्तप्रायाः दृश्यन्ते । गर्भाधानादि अन्नप्राशनपर्यन्तानां संस्काराणां शास्त्रीयविधिनिषेधसहितः व्यावहारिकप्रयोगोपागमः सम्प्रति लोपोन्मुखो दृश्यते । प्राग्जन्मसंस्कारेषु प्रथमरजोदर्शनं गर्भाधानं पुंसवनं सीमन्तोन्नयनमेते संस्काराः तेषां शुभमुहूर्ताश्च जनानां जीवनव्यवहाराद् विलुप्तप्रायाः सञ्जाताः । शिशुसंस्कारेषु जातकर्म-नामकरण-पालकारोहण-भूम्युपवेशन-दुग्धपान- निष्क्रमणञ्चेति संस्काराश्च सम्प्रति विस्मृतप्रायाः विद्यन्ते । बाल्यसंस्कारेषु कर्णवेध अन्नप्राशनं चूडाकरणमुपनयनञ्चेति संस्काराः तेषां शुभमुहूर्ताश्चाद्यतनेऽस्मिन् युगे शास्त्रीयाचारहीनोन्मुखा दृश्यन्ते । नेपालदेशीयेषु पञ्चाङ्गपत्रेषु चैतेषां संस्काराणां शुभमुहूर्तनिर्देशनं प्रायो नैवोपलभ्यते । पञ्चाङ्गपत्रेषु मुहूर्तमार्तण्डस्य संस्कारप्रकरणोक्तानां संस्कारणां मुहूर्तस्य प्रयोज्यमानस्थितिरत्राकलनं कृतं विद्यते । तेन एतेषां मुहूर्तानां शास्त्रीयप्रमाणाधाररूपाणां मुहूर्तमार्तण्डस्य संस्कारप्रकरणोक्तानां शुभमुहूर्तानामत्र समीक्षणं   कृतमस्ति ।  नेपालदेशीयपञ्चाङ्गपत्रेषु गर्भाधानादि निष्क्रमणान्तानां सप्तसङ्ख्यकानां संस्काराणां शुभमुहूर्तो प्रकाशितो नैव दृश्यते । पञ्चाङ्गेषु अप्रकाशितेन तेषां संकाराणां प्रयोगपरम्परा सनातनसंस्कृतिप्रिये नेपालदेशीये हिन्दूसमाजे प्रायः विलुप्ता जाता । अतः तेषां प्रयोगपरम्परा पुनर्स्थापनाय  पञ्चाङ्गकाराः स्वकीये पञ्चाङ्गपत्रे तन्मुहूर्तनिर्देशनपुरस्सरं प्रकाशनं कुर्युरिति निष्कर्ष अस्मिन् शोधनिबन्धे उद्घाटितो विद्यते ।  गुणात्मिकायामनुसन्धानपद्धत्यमाधारितेऽस्मिन् शोधनिबन्धे पुस्तकालयकार्यद्वारा सङ्कलितानां प्राथमिकद्वितीयकस्रोतसामग्रीणामुपयोगं विहितमस्ति ।  मुहूर्तशास्त्रस्य सैद्धान्तिकपक्षं यथास्थानमुपयुज्य सङ्कलिततथ्यानां विश्लेषणविधिना समान्यीकरणसत्यापनपूर्वकं निष्कर्षमुद्घाटितं विद्यते ।

Downloads

Download data is not yet available.
Abstract
25
PDF
30

Author Biography

अम्बरराज Amber Raj ढकालः Dhakal, ने. सं. वि. : पिण्डेश्वरविद्यापीठम्, धरान

उपप्राध्यापकः - ज्योतिषम्

Downloads

Published

2024-12-31

How to Cite

ढकालः Dhakal अ. A. R. (2024). नेपालदेशीयपञ्चाङ्गपत्रे मुहूर्तमार्तण्डस्य संस्कारप्रकरणोक्तानां संस्काराणां मुहूर्ताध्ययनम्. Pragyajyoti, 5(8), 1–16. https://doi.org/10.3126/pj.v5i8.73794

Issue

Section

Articles