विषयवस्तुदृष्ट्या काव्यालङ्कारस्यानुशीलनम
DOI:
https://doi.org/10.3126/pj.v4i1.44886Keywords:
सम्प्रदायः, महाकाव्यम्, वक्रोक्तिः, काव्यशास्त्रं, काव्यालङ्कारः, शब्दार्थौAbstract
काव्यशास्त्रस्येतिहासे भरतादनन्तरं भामहात्पूर्वं बहवो वर्षाः व्यतीताः । तस्मिन् समये समुत्पन्नानामाचार्याणां नामानि, काव्यशास्त्राणि च नोपलभ्यन्ते । अस्य महानुभावस्य काव्यालङ्कार एव भरतपश्चाद्वर्ती सर्वप्रथमो मान्यग्रन्थश्चकास्ति । काव्यालङ्कारः काव्यशास्त्रस्य सर्वप्राचीनो ग्रन्थः स्वीकृतोऽस्ति । भरतस्य नाट्यशास्त्रं ततः प्राक्कालस्यैव मन्यते । कुत्रचिद् भरतस्य नाट्यशास्त्रं नाटकविषयसम्बद्धं वर्तते । अस्य काव्यशास्त्रं नाट्यशास्त्रादभिन्नं विषयं वर्णयति तस्मादस्य ग्रन्थः स्वतन्त्र इत्यनुभूयते । काव्यालङ्कारे काव्यस्य सम्पूर्णेष्वङ्गेषु चर्चा विहिता दृश्यते । भामहेन “शब्दार्थौ सहितौ काव्यम्” इत्युक्त्वा काव्यस्वरूपं निर्धारितम् । तदुत्तरवर्तिभिः
मम्मटादिभिराचार्यैरस्यानुशरणं विहितम् विलोक्यते । अतएवास्मिनध्ययने भामहस्य काव्यालङ्कारस्य विषयवस्तुदृष्ट्या अध्ययनं विहितमस्ति ।