वाऽसरूपोऽस्त्रियाम् इति सूत्रविमर्शः

Authors

  • खेमराज Khemraj खनालः Khanal ने.सं.वि.पिण्डेश्वरविद्यापीठम्, धरानः Nepal Sanskrit Biddhyapeetham, Dharan

DOI:

https://doi.org/10.3126/pj.v4i1.44884

Keywords:

धात्वधिकारः, असरूपः, उत्सर्गः, अपवादः

Abstract

वाऽसरूपोऽस्त्रियाम् (पा.सू. ३।१।९४) इति परिभाषासूत्रमस्ति । धात्वधिकारे कृदन्तप्रकरण एतत् सूत्रमुपकरोति । स्œयधिकारविहितप्रत्ययं वर्जयित्वाऽस्मिन् धात्वधिकारेऽसमानरूपोऽपवादः प्रत्यय उत्सर्गप्रत्ययस्य विकल्पेन बाधको भवति इत्यस्य सूत्रस्यार्थो विद्यते । मुख्यतः कृदन्तेषु प्रत्ययविधायकेषु सूत्रेषु सूत्रमिदं प्रवर्तते । अस्य सूत्रस्यानुसारेण अण्–कौ समानरूपौ प्रत्ययौ स्तः । णकारककारयोरित्संज्ञया अण्–कयोः प्रत्यययोरवशेषः ‘अ’ एव भवति । अतः आतोऽनुपसर्गे कः (पा.सू.३।२।३) इति सूत्रं कर्मण्यण् (पा.सू. ३।२।१) इतिसूत्रेण नित्येन बाध्यते । तव्यत्तव्यानीयरः (पा.सू.३।१।९६) इतिसूत्रेण विहितौ तव्यानीयरौ प्रत्ययौ भिन्नरूपकौ भवतः । एतस्मात् इमौ विकल्पेन बाधकौ वर्तेते । एतेन भवितव्यम्, भवनीयम् एते द्वे रूपे सिध्यतः । अत एव सूत्रमिदं सिद्धान्तकौमुद्याम् कृत्प्रत्ययस्यादावेव पठितमस्ति l

Downloads

Download data is not yet available.
Abstract
63
PDF
40

Author Biography

खेमराज Khemraj खनालः Khanal, ने.सं.वि.पिण्डेश्वरविद्यापीठम्, धरानः Nepal Sanskrit Biddhyapeetham, Dharan

सहप्राध्यापकः Associate Professor

Downloads

Published

2021-06-30

How to Cite

खनालः Khanal ख. K. (2021). वाऽसरूपोऽस्त्रियाम् इति सूत्रविमर्शः. Pragyajyoti, 4(1), 1–6. https://doi.org/10.3126/pj.v4i1.44884

Issue

Section

Articles