धर्मशास्त्रदृष्ट्या संस्कारप्रमाणविमर्शः

Authors

  • विष्णु चौधरी बिजौरी, दाङ, नेपाल

DOI:

https://doi.org/10.3126/haimaprabha.v23i1.66738

Keywords:

पाकयज्ञ:, संस्कार:, हविर्यज्ञ:, पुरुषार्थ:, अनसूया

Abstract

अस्मिन् लेखे धर्मशास्त्रदृष्ट्या संस्कारप्रमाणविमर्शः इति विषये शास्त्रीयविषयत्वेन मुख्यतः धर्मशास्त्राधारेण संस्कारसम्बद्धाः विषया विवेचिताः सन्ति । विश्वधर्मशास्त्रइतिहासे संस्कृतधर्मशास्त्रस्य विशिष्टं स्थानं दृष्टिगोचरीभवति । वैदिककालद् आरभ्यः अधुनातनसमयं यावत् सहस्रशः विशिष्टकृतयः संस्कृतभाषायामेव संरचिताः सन्ति । तेषां अध्ययनं अतिवः अपरिहार्यं वर्तते । अतः धर्मशास्त्रनिर्दिष्टानां विविधसंस्कारसम्बद्धविषयाणां ज्ञानार्जने लेखोऽयं उपयोगी भवति । धर्मानुष्ठानं सर्वमनुष्याणां कृते मङ्गलकारकं भवति । ईहलोके परत्र च मनुष्याणां पोषणम्, तोषणं, रक्षणञ्च धर्मेणैव भवति । विषयेऽस्मिन् विमति वा भिन्नं मतं नैव दृश्यते । श्रुतिस्मृतिनिर्दिष्टानि कर्माणि एव संस्काराः । संस्कृयते अनेन श्रौतेन कर्मणा स्मार्तेनवापुरुष इति संस्कारः ।  निजदेहात् भिन्नः सन् सम्पादितस्य विहितस्य वा कर्मणः उत्पन्नं उत्कर्षविशेषं संस्कार इति कथ्यते । ब्राह्म–दैवभेदात् द्विविधस्य संस्कारस्य धर्मार्थकाममोक्षाख्यपुरुषार्थचतुष्टयप्राप्त्यर्थं एवञ्च शौर्यवीर्यप्रज्ञादिगुणानां जागरणार्थं च महत्त्वं वर्तते मानवजीवने । वेदनिर्दिष्टैर्गर्भाधानादिपुण्यकर्मर्भिद्विजानां शारीरिके संस्कारे विहिते सति इहलोके परलोके च पुण्यप्राप्तिर्जायते इत्यस्यालेखस्य निष्कर्षो वर्तते । अस्य सम्पादने सामग्रीसङ्कलने पुस्तकालयमुपयुज्य संस्कारसम्बद्धाः धर्मशास्त्रीयग्रन्थाः  मुख्यसामग्रीत्वेन स्वीकृता वर्तन्ते । विषयवस्तुनिर्वचने व्याख्याविश्लेषणशैली प्रयुक्ता अस्ति । विषयवस्तुव्यवस्थापनाय लेखकमितिपद्धतिः (एपिए) अवलम्बिता वर्तते ।

[This article discusses the topics related to rites on the basis of scriptures. Sanskrit Dharmashastra occupies a special place in the history of theology. From the Vedic period till today, thousands of unique works have been composed in Sanskrit language. Studying them is essential. Therefore, this article is useful for gaining knowledge of various ritual-related topics specified in the scriptures. The practice of religion is auspicious for all mankind. The religion provides the nourishment, satisfaction and protection to man in this world and also in the next world. There is no disagreement on this matter. Sanskar is the action prescribed by the Vedas and Smriti. It is a rite of passage to refine through Shrauta Kriya or Smart Karma. Sanskar, which is the result of Karma, is different from one's own body. By distinguishing between Brahma and Daiva, these two types of rites are important in human life for attaining Dharma, Artha, Karma and Moksha, the four virtues and instilling courage, strength, wisdom and other qualities. If you perform bodily rituals through the pregnancy of Dwijas, you will get merit in this world and in the hereafter. The theological texts related to rituals have been used as the main materials to furnish this article. APA documenting style has been used for content management.]

Downloads

Download data is not yet available.
Abstract
21
PDF
14

Downloads

Published

2024-06-17

How to Cite

चौधरी व. (2024). धर्मशास्त्रदृष्ट्या संस्कारप्रमाणविमर्शः. Haimaprabha, 23(1), 147–158. https://doi.org/10.3126/haimaprabha.v23i1.66738

Issue

Section

Articles