न्यायवैशेषिकयोरभावमीमांसा

Authors

  • पुरुषोत्तम आचार्यः न्यायविभागः नेपालसंस्कृतविश्वविद्यालयः, जनताविद्यापीठम्, दाङः, नेपालः

DOI:

https://doi.org/10.3126/haimaprabha.v23i1.66731

Keywords:

अभावः, प्रागभावः, प्रध्वंसाभावः, अत्यन्ताभावः, अन्योन्याभावः

Abstract

प्रस्तुतोऽयमालेखो न्यायवैशेषिकदर्शनयोरभावमीमांसायां केन्द्रितो वर्तते ।  गुणात्मकस्वरूपे सज्जीकृतेऽस्मिन् आलेखे पुस्तकालयीयविधिद्वारा प्राप्ततथ्यानां विश्लेषणं विधायान्ते निष्कर्षः प्रस्तुतोऽस्ति । इहालेखे न्याये वैशेषिके च सप्तमपदार्थत्वेनाभिमतस्याभावस्य स्वरूपं विश्लिष्टं वर्तते । अभावस्य स्वरूपम् किम् ? तद्भेदश्च कः ? संसर्गाख्याभावाः के ? इत्यादिशङ्कानिवारणायैवायमालेखः प्रस्तुतः । द्रव्यादिषट्पदार्थभिन्नो यो नास्तीतिप्रतीतिविषयः,  सोऽभावो भवति । तच्च नञ्पदजन्यप्रतीतिविषयत्वमेव । अभावभेदप्रतिपादनावसरे तस्य द्वैविध्यं वा चातुर्विध्यं वा षाड्विध्यं वेत्यत्र विदुषां मतैक्यं न दृश्यतेऽपि सारतः प्रागभावप्रध्वंसाभावात्यन्ताभावान्योन्याभावभेदेन तच्चातुर्विध्ये न केषाञ्चनाप्यापत्तिः । अभावपदार्थचिन्तनक्रमे कणाद-शङ्करमिश्र-जयन्तभट्ट-विश्वनाथभट्टाचार्य-केशवमिश्र-अन्नम्भट्टप्रभृत्याचार्याणां सिद्धान्तो विवेचितो वर्तते । एवञ्चाध्ययनस्य निष्कर्षरूपेण प्रागभावाप्रतियोगित्वे सति ध्वंसप्रतियोगित्वं प्रागभावत्वम्, प्रागभावप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वं प्रध्वंसाभावत्वम्, प्रागभावाप्रतियोगित्वे सति ध्वंसाप्रतियोगित्वे सति अन्योन्याभावभिन्नत्वे सति अभावत्वमत्यन्ताभावत्वम्, तादात्म्यसम्बन्धावच्छिन्नप्रतियोगिताकत्वे सत्यभावत्वमन्योन्याभावत्वमिति निष्कृष्टलक्षणं प्रतिपाद्यान्ते निष्कर्षः प्रदत्तो वर्तते । अस्मान्निष्कर्षान्न्यायवैशेषिकाभिमतस्याभावपदार्थस्यावबोधने जिज्ञासूनां कृतेऽयमालेख उपयोगी भविष्यतीत्यपेक्ष्यते ।

[This article focuses on the lack of philosophy of justice and philosophy. This article is prepared in a qualitative format, the data obtained through the library method, which are analyzed and the conclusion is presented. In this article, the nature of lack is accepted as the seventh substance in the law and Vaisheshika. What is the lack? How many types of it are there? What is affinity? This article tries to clear such doubts. Although there is no consensus among the scholars as to whether there are two, four or six types of lack, no one disagrees that there are four types of lack in essence, Pragabhava, Pradvanshabhava, Ugyabhava and Anonyabhava. During the discussion, the doctrines of Kanad, Shankar Mishra, Jayanta Bhatt, Vishwanath Bhattacharya, Keshav Mishra, Annambhatt etc. have been discussed. Therefore, it has been concluded with the signs that Pragabhava being non-competitive and destructive is Pragabhava, Pragabhava being destructive and Pragbhava being destructive, Pragabhava being antagonistic and destructive and being different from each onyabhava. From this conclusion, it is expected that the curious will be useful to gain knowledge about the lack of justice and special philosophy.]

Downloads

Download data is not yet available.
Abstract
15
PDF
10

Author Biography

पुरुषोत्तम आचार्यः, न्यायविभागः नेपालसंस्कृतविश्वविद्यालयः, जनताविद्यापीठम्, दाङः, नेपालः

उपप्राध्यापकः

Downloads

Published

2024-06-17

How to Cite

आचार्यः प. (2024). न्यायवैशेषिकयोरभावमीमांसा. Haimaprabha, 23(1), 70–81. https://doi.org/10.3126/haimaprabha.v23i1.66731

Issue

Section

Articles