न्यायवैशेषिकाभिमताः पञ्चावयवाः

Authors

  • पुरुषोत्तम आचार्य न्यायविभागः नेपालसंस्कृतविश्वविद्यालयः, जनताविद्यापीठम्, दाङः, नेपालः

DOI:

https://doi.org/10.3126/haimaprabha.v1i22.56539

Keywords:

प्रतिज्ञा, हेतुः, उदाहरणम्, उपनयः, निगमनम्

Abstract

प्रस्तुतोऽयमालेखो न्यायवैशेषिकदर्शनयोरवयवविवेचने केन्द्रितो वर्तते । आलेखोऽयं गुणात्मकस्वरूपे सज्जीकृतः । आलेखेऽस्मिन् पुस्तकालयीयविधिद्वारा प्राप्ततथ्यानां विश्लेषणं कृत्वान्ते निष्कर्षः प्रदत्तो वर्तते । अत्र न्यायवैशेषिकाचार्याभिमतस्यावयवस्य स्वरूपं विश्लिष्टं विद्यते । न्यायशास्त्रेऽनुमानस्य भेदद्वयं स्वीक्रियते स्वार्थपरार्थभेदेन । यत्र परार्थानुमानं तत्र नूनमेव प्रतिज्ञादिपञ्चावयववाक्यानामावश्यकत्वं भवति । प्रतिज्ञाहेतूदाहरणोपनयनिगमनानां पञ्चानामेवावयवत्वं प्रतिपाद्य तादृशपञ्चावयववाक्यानां समुदाय एव परमो न्याय इति हि न्यायसिद्धान्तः । अवयवस्वरूपचिन्तनक्रमे सर्वप्रथमं न्यायवैशेषिकैरभिमतमवयवं विविच्य पञ्चानां प्रतिज्ञाद्यवयवानां स्वरूपं क्रमशः प्रस्तुतमत्र । परार्थानुमानेऽवयववाक्यानामावश्यकत्वं नूनमेव भवति । स्वार्थानुमाने चावयववाक्यानामावश्यकत्वाभावेन न्यायाप्रयोज्यानुमानं स्वार्थानुमानं न्यायप्रयोज्यानुमानं परार्थानुमानमिति निष्कर्षोऽत्र प्रस्तुतः । अस्मान्निष्कर्षान्न्यायवैशेषिकसम्बद्धस्यावयवस्वरूपस्यावबोधने जिज्ञासूनां कृतेऽयमालेख उपयोगी    भविष्यतीत्यपेक्ष्यते ।

Downloads

Download data is not yet available.
Abstract
42
PDF
30

Author Biography

पुरुषोत्तम आचार्य, न्यायविभागः नेपालसंस्कृतविश्वविद्यालयः, जनताविद्यापीठम्, दाङः, नेपालः

उपप्राध्यापकः

Downloads

Published

2023-07-14

How to Cite

आचार्य प. (2023). न्यायवैशेषिकाभिमताः पञ्चावयवाः. Haimaprabha, 1(22), 57–65. https://doi.org/10.3126/haimaprabha.v1i22.56539

Issue

Section

Articles