विशेषसमवायपदार्थपरिशीलनम् [Special cohesive substances]
DOI:
https://doi.org/10.3126/haimaprabha.v21i01.44851Keywords:
विशेषः, नित्यत्वम्, समवायः, विशिष्टबुद्धिः, अयुतसिद्धवृत्तित्वं चAbstract
प्रस्तुतोऽयमालेखो न्यायवैशेषिकदर्शनयोर्विशेषसमवायपदार्थयोः विवेचने केन्द्रितो वर्तते । गुणात्मकस्वरूपे सज्जीकृतेऽस्मिन् आलेखे पुस्तकालयीयविधिद्वारा प्राप्ततथ्यानां विश्लेषणं विधायान्ते निष्कर्षः प्रस्तुतो वर्तते । अत्र न्यायवैशेषिकाचार्याभिमतयोर्विशेषसमवायपदार्थयोः स्वरूपं विश्लिष्टं विद्यते । आस्तिकदर्शनेषु काणाददर्शनं वैशेषिकनाम्ना कथं विख्यातम् ? विशेषस्वरूपं कीदृशम् ? समवायस्य च स्वरूपं कीदृशम् ? इत्यादिप्रश्नाः नूनमेव मनसि परिभ्रमेयुः । तादृशाशङ्कानिरसनायैवायमालेखः प्रस्तुतः । विशेषपदार्थस्य स्वरूपचिन्तनक्रमे सर्वप्रथमं कणाद–प्रशस्तपादाचार्य–विश्वनाथप्रभृतीनामाचार्याणां मतं विविच्य निष्कर्षरूपेण नित्यद्रव्यवृत्तित्वे सति स्वतोव्यावर्तकत्वं विशेषस्य लक्षणमिति प्रस्तुतम् । एवमेव निरवयवानां परमाणूनां परस्परं भेदसाधनाय विशेषः स्वीकर्तव्यः, अन्यथा घटपटादीनां परस्परं भेदो न स्यादेव । विशेषपदार्थस्वीकृतत्वादेव काणाददर्शनं वैशेषिकनाम्ना प्रथितमित्यादिचिन्तनमत्र प्रस्तुतं विद्यते । एवमेव समवायपदार्थविश्लेषणक्रमे सर्वप्रथमं समवायस्वरूपं प्रदश्र्य अयुतसिद्धवृत्तिसम्बन्धत्वं हि तल्लक्षणं निष्कर्षरूपेण प्रस्तुतमत्र । ततः समवायसत्त्वे प्रमाणम्, तन्नित्यत्वम्, एकत्वम्, तस्य प्रत्यक्षत्वं वानुमेयत्वमित्यादिविवेचनपूर्वकमन्ते निष्कर्षः प्रदत्तो वर्तते । अस्मान्निष्कर्षान्न्यायवैशेषिकसम्बद्धयोः विशेषसमवायपदार्थयोरवबोधने जिज्ञासूनां कृतेऽयमालेख उपयोगी भविष्यतीत्यपेक्ष्यते ।
Downloads
Downloads
Published
How to Cite
Issue
Section
License
This work is licensed under a Creative Commons Attribution 4.0 International License.
© Nepal Sanskrit University, Janata Campus, RMC, Bijauri Dang, Nepal