स्फोटतत्त्वनिरूपणम्
Keywords:
वर्णः, पदम्, वाक्यम्, जातिः, व्यक्तिःAbstract
अन्वेषणात्मकलेखोऽयं व्याकरणशास्त्रस्य स्फोटतत्त्वविषयस्योपर्यनुसन्धानं कृत्वा विरचितोऽस्ति । सभेदस्फोटतत्त्वविश्लेषणपूर्वकं वाक्यस्फोटस्य मुख्यत्त्वनिरूपणमस्य लेखस्योद्देश्यमस्ति । लेखश्चायं गुणात्मकस्वरूपकोऽस्ति । अत्र पुस्तकालस्रोतोभ्यः व्याकरणदर्शनस्य वाक्यपदीय-वैयाकरणसिद्धान्तमञ्जुषादिग्रन्थानवलोक्य तेभ्यः स्फोटतत्त्वसम्बद्धाः तथ्यरूपसामग्रीः सङ्कलय्य ताषां वर्णनं विश्लेषणञ्च कृत्वा निष्कर्षः स्थापितः। अतोऽत्र वर्णनात्मको विश्लेषणात्मकश्चाध्ययनविधिरवलम्वितोऽस्ति । अस्य सैद्धान्तिकपर्याधारः स्फोटसिद्धान्त एव । संसारस्य सकलो व्यवहारः शब्दप्रयोगाधीनः । शब्दादेवार्थो ज्ञायते । अर्थं ज्ञात्वैव जनानां प्रवृत्तिर्निवृत्तिर्वा भवति । तादृशस्यार्थस्य बोधकः शब्दः कः? इति विचारणीयम् । वैयाकरणमते स्फोट एव शब्दः कथ्यते । स च स्फोटो वस्तुत एको नित्यो विभुश्च,किन्तु वर्णपदवाक्यरूपोपाधिभेदादष्टविधः । तेषु वाक्यस्फोट एव मुख्यो भवति । व्यवहारेऽपि वाक्यमेवार्थबोधको भवति । वाक्येनैवार्थस्य पूर्णता जायते । अत्र व्याकरणेतरदर्शनस्याऽपि सम्मतिर्दृश्यते । पदसमूहरूपवाक्यमेव पूर्णतया अर्थबोधने समर्थं भवति । भर्तृहर्यादिभिरपि वाक्यस्फोटस्यैव मुख्यत्त्वं प्रतिपादितं दृश्यते । अत एव अष्टषु स्फोटेषु वाक्यस्फोटो मुख्यः,तस्यैव लोकेऽर्थबोधकत्वात्तेनैवार्थसमाप्तेश्चेति निष्कर्षोऽत्र स्थापितः ।