स्वप्नवासवदत्तगता रसयोजना

Authors

Keywords:

आलम्बनम्, उद्दीपनम्, व्यभिचारी, अनुभावः, चित्तवृत्तिः

Abstract

अनुसन्धानात्मकलेखोऽयं स्वप्नवासवदत्तनाटकगतरसयोजनाविषयकविश्‍लेषणे  केन्द्रितोऽस्ति । स्वप्नवासवदत्तनाटकपरिचयपूर्वकं गतरसयोजनाविश्लेषणोद्देश्येनायं शोधलेखो निर्मितः । लेखश्चायं गुणात्मकस्वरूपे संरचितः । अत्र विवेच्यनाटकाद् विविधरसयोजनोदाहरणरूपाः सामग्रीः काव्यशास्त्रीयग्रन्थादिभ्यश्च रससि४न्तसम्बद्धास्तद्‍भेदप्रभेदसम्बद्धाश्च तथ्यरूपाः सामग्रीः सङ्कलय्य तासां वर्णनं, विश्लेषणञ्च कृत्वा निष्कर्षः स्थापितोऽस्ति । अतोऽस्मिन् मूलतो वर्णनात्मको विश्लेषणात्मकश्चाध्ययनविधिरवलम्बितोऽस्ति । अत्र च मूलतः संस्कृतकाव्यशास्त्रस्थः रससिद्धान्तः सैद्धान्तिकपर्याधारत्वेन गृहीतोऽस्ति । दृश्यश्रव्यत्वभेदेन द्विविधे साहित्ये दृश्यकाव्यान्तर्गतं भासप्रणीतं स्वप्नवासवदत्तनाटकमतीव रमणीयं नाटकान्तरापेक्षया विशिष्टञ्च वर्तते । नानारसयुतेषु काव्येषु संस्कृतसाहित्ये प्रसिद्धेषु शृङ्गारहास्यकरुणादिषु नवरसेषु कस्याप्येकस्य रसस्याङ्गित्वमन्येषाञ्च रसानां तदुपस्कारकतयाऽङ्गत्वमपेक्ष्यते । कैश्चित् समीक्षकैरितिहासकारैश्च भासस्य स्वप्नवासवदत्तनाटके विप्रलम्भशृङ्गाररसस्याङ्गित्वं करुणहास्यादीनाञ्च रसानामङ्गत्वं सूत्रात्मकतयोल्लिखितं कैश्चित्तु तस्योद्बुद्धिरेव भवति परिपाको नास्तीति कथितम्, परन्त्वत्र नाटके शृङ्गाररसस्याप्रबन्धं परिपाको दृश्यते । सर्वविधलक्ष्यलक्षणसमन्वयपूवर्कविश्लेषणेन चात्र नाटके   संयोगशृङ्गारस्याङ्गित्वमन्येषाञ्च विप्रलम्भशृङ्गारहास्यकरुणवीरशान्तानां तदुपस्कारकतया अङ्गत्वं सिध्यतीति निष्कर्षोऽत्र स्थापितः ।

Abstract
0
PDF
0

Author Biography

Rita Jnawali Paudyal , Associate Professor, NSU Vishwovidyalayavidyapeeth , Beljhundi, Dang, Nepal.

Department of sahitya (Sanskrit Literature)

Downloads

Published

2026-07-09

How to Cite

स्वप्नवासवदत्तगता रसयोजना . (2026). अन्वेषणा Anveshana, 4(1), 110-125. https://doi.org/10.3126/anveshana.v4i1.96923

Issue

Section

Articles

How to Cite

स्वप्नवासवदत्तगता रसयोजना . (2026). अन्वेषणा Anveshana, 4(1), 110-125. https://doi.org/10.3126/anveshana.v4i1.96923