अधिकारसूत्रस्वरूपम्

Authors

Keywords:

अनुवृत्तिः, गङ्गास्रोतःप्रवाहः, गोयूथः, मण्डुकप्लुतिः, सिंहदृष्टिः

Abstract

वैयाकरणाः सर्वदैवाल्पक्षरव्यवहारेण व्यापकमर्थं प्रकाशयितुमिच्छन्ति । व्याकरणशास्त्रे सूत्रेष्वदृष्टम्पदं सूत्रान्तराद् सर्वत्रैवानुवर्तनीयं भवति । अनुवृत्तिकौशलमधिकारसूत्रञ्च वैयाकरणानामेतादृशीमिच्छां पूरयति । अत्रानुसन्धाने को नामाधिकारः, स्वरितेनाधिकारसूत्रस्याशयः, किं नामस्वरितम्, अधिकारसूत्रलक्षणम्, व्याकरणशास्त्रे­ऽनुवृत्ति­व्यवस्था, अधिकारस्यानुवृत्तिः, अधिकारसूत्रस्य प्रयोजनमित्यादयो विषया यथासम्भवं सुस्पष्टीकृताः सन्ति । तत्र क्रमेऽधिकारसूत्रस्य स्वरूपविषयेऽनुसन्धानं विहितम् । ततः सभेदमधिकारपदस्य विवेचनं प्रदर्शितमस्ति । यथासम्भव गुणात्मकविधिरङ्गीक्रयतेऽत्रानुसन्धानक्रमे । अधिकारसूत्राणां विश्लेषणक्रमे सम्बद्धसूत्रार्थ–वृत्ति–वार्तिक–फक्किका–परिभाषेत्यादीनां सम्यग्परिशीलनं विहितम् । संस्कृतव्याकरणपरम्परायां सञ्ज्ञापरिभाषाविधि­नियमातिदेशाधिकाराश्चेति षड्विधानि सूत्राणि समुपलभ्यन्ते । संज्ञासंज्ञिप्रत्यायिका संज्ञा, अनियमे नियमकारिणीति परिभाषा, आदेशादिविधायको विधिः, प्राप्तस्य विधेर्नियामको वा सिद्धे सत्यारभ्यमाणो विधिर्नियमः, अन्यतुल्यत्वविधानमतिदेशः, एकत्र उपात्तस्यान्यत्र व्यापारोऽधिकारसूत्रं कथ्यते । तेष्‍वधिकारसूत्रस्य प्रयोजनं विशिष्टमस्त्येव । परन्त्वधिकारसूत्रस्य स्वरूपविषये विदुषां मतवैभिन्न्यं प्राप्यन्ते । त्रय प्रकारकाः चतुर्विधप्रकारका वाऽधिकारसूत्राणि भवन्तीति विषये च वैमत्यम् । कतिपय वैयाकरणा अधिकारस्य चतुर्विधस्वरूपं वर्णयन्ति– गोयूथः, सिंहदृष्टिः, मण्डुकप्लुतिः, गङ्गास्रोतःप्रवाहश्चेति । कस्यचिच्छब्दस्य कतिपयसूत्रपर्यन्तमनुवृत्तिर्गोयूथः । सिंहदृष्टिवदग्रे पठितस्य सूत्रस्य कतिपयशब्दानां पृष्ठतोऽनुवृत्तिः सिंहावलोकिताख्या, तदपेक्षयाऽधिकसङ्ख्यक­सूत्रानुवृत्तिर्गङ्गा­स्रोतश्शब्दवाच्या । अधिकारसूत्रस्वरूपविमर्शे प्रथमं कस्य सूत्रस्य किं सूत्रं यावदधिकारः कस्य कथञ्चोपयोगः, उदाहरणानि च कानि चेत्यादिजिज्ञासाशान्त्यै अधिकारसूत्रनिरूपणेन तेषां प्रयोगविवरणं यथासम्भवमुदाहरणप्रदर्शनेन प्रकाशयितुं शक्यते परन्त्वत्र लेख । अतोऽत्रानुसन्धाने जिज्ञासुपाठकानां छात्राणाञ्च सुखबोधायात्राधिकारसूत्रस्वरूपं सरलतया सोपपत्तिकञ्च विश्लेषणं विहितमस्ति ।

Abstract
0
PDF
0

Author Biography

Prakash Tiwari , Associate professor, NSU Valmeeki Vidhyapeeth, Nepal Sanskrit University, Kathmandu, Nepal

Department of Vyakaran (Sanskrit Grammar)

Downloads

Published

2026-07-09

How to Cite

अधिकारसूत्रस्वरूपम् . (2026). अन्वेषणा Anveshana, 4(1), 82-96. https://doi.org/10.3126/anveshana.v4i1.96919

Issue

Section

Articles

How to Cite

अधिकारसूत्रस्वरूपम् . (2026). अन्वेषणा Anveshana, 4(1), 82-96. https://doi.org/10.3126/anveshana.v4i1.96919