व्याकरणमहाभाष्ये व्याकरणाध्ययनप्रयोजनम्

Authors

Keywords:

रक्षा, ऊहः, आगमः, लघुः, असन्देहः

Abstract

व्याकरणाध्ययनप्रयोजनमिति  इति शीर्षकस्यालेखेऽस्मिन् व्याकराणाध्ययनप्रयोजनानां विश्लेषणं विमर्शनञ्च कृतमस्ति । पातञ्जलव्याकरणमहाभाष्ये रक्षोहागमलघ्वसन्देहाः पञ्च प्रयोजनानि त्रयोदश अप्रधानप्रयोजनानि च सन्ति । आलेखे सपुरावृत्तं संस्कृतव्याकरणस्य संक्षिप्तपरिचयं दत्त्वा व्याकरणस्य मुख्यगौणप्रयोजनानां सोदाहरणं व्याख्यानं विमर्शनं कृतमस्ति । निगमनविधिं प्रयुज्य शोधो विहितो वर्तते । तत्रैवान्यसामग्रीसङ्कलनाय भौतिकसाञ्जालिकपुस्तकालयपद्घतिः समवलम्बिता वर्तते । प्रकृतलेखस्य विषयः व्याकरणाध्ययनप्रयोजनानीति अस्ति तेनात्र विषयप्रतिपादनाय विश्लेषणविधिः प्रयुक्तो वर्तते । आलेखेऽस्मिन् रक्षोहागमलघ्वसन्देहाः मुख्यप्रयोजनानां  तेऽसुराः..., दुष्टः... शब्दः...., यदधीतम्...., यस्तु प्रयुङ्क्ते...., अविद्वांशः...., विभक्तिं कुर्वन्ति...., यो वा इमाम्...., चत्वारि...., उत त्वः...., सक्तुमिव....,  सारस्वतीम्...., दशम्यां पुत्रस्य...., सुदेवोऽसीति त्रयोदशानामानुषङ्गिकानां व्याकरणाध्ययनप्रयोजनानां विश्लेषणं विहितमस्ति । व्याकरणप्रयोजनेन व्याकरणाध्ययनाय प्रवृत्तिर्भवति, व्याकरणस्य महत्त्वञ्च लभ्यते । एवञ्च समाजेन सह, मानवजीवनशैल्या सह च व्याकरणप्रयोजनानि नियोज्य नवसंस्कारप्रणालीं निर्मातुं शक्यते ।  पातञ्जलव्याकरणमहाभाष्यानुसारं व्याकरणाध्ययनस्य पञ्च मुख्यप्रयोजनानि, त्रयोदश गौणप्रयोजनानि च सन्ति, भाषासम्पादनाय, नवज्ञानाय, व्यवहारपरिमार्जनाय च व्याकरणाध्ययनमावश्यकमित्यालेखस्य निष्कर्षः सम्पादितो वर्तते ।  चरमेऽनुसन्धानात्मकालेखोऽयं पाठकान् न केवलं व्याकरणस्य परिचयविषये प्रयोजनपरिचयविषये शिक्षयति अपि तु प्रयोजनानामन्तर्बोधं कारयति । असौ संस्कृतव्याकरणस्यौचित्यं प्रयोजनमात्सात्कर्तुं सुतरां प्रेरयति ।

Abstract
0
PDF
0

Author Biography

Narayan Joshi , Lecturer, NSU sharada vidyapeeth

Department of Vyakaran (Sanskrit Grammar)

Downloads

Published

2026-07-09

How to Cite

व्याकरणमहाभाष्ये व्याकरणाध्ययनप्रयोजनम् . (2026). अन्वेषणा Anveshana, 4(1), 67-81. https://doi.org/10.3126/anveshana.v4i1.96918

Issue

Section

Articles

How to Cite

व्याकरणमहाभाष्ये व्याकरणाध्ययनप्रयोजनम् . (2026). अन्वेषणा Anveshana, 4(1), 67-81. https://doi.org/10.3126/anveshana.v4i1.96918