महाभाष्यानुसारं व्याकरणशास्त्राध्ययनस्य प्रयोजनम्
Keywords:
प्रयोजनम्, सौकर्यम्, मूर्धन्यम्, प्रायश्चित्तीयाः, निरामयाःAbstract
आलेखोऽयं व्याकरणशास्त्राध्ययनप्रयोजनविवेचने केन्द्रितोऽस्ति । लेखश्चायं गुणात्मकस्वरूपे संरचितः । अत्र व्याकरणमहाभाष्यादि-ग्रन्थेभ्यो व्याकरणशास्त्राध्ययनप्रयोजनसम्बद्धाः तथ्यरूपाः सामग्रीः सङ्कलय्य तासां वर्णनं, विश्लेषणञ्च कृत्वा निष्कर्षणं कृतम् । अतोऽस्मिन् मूलतो वर्णनात्मको विश्लेषणात्मकश्चाध्ययनविधिरवलम्बितोऽस्ति । स्वाभिप्रायाभिव्यक्तये परिष्कृतभाषाप्रयोगाय काव्यशास्त्रादीनां ज्ञानाय च व्याकरणशास्त्रस्यापरिहार्यताप्रदर्शनोद्देश्येन निर्मितेऽस्मिन्ननुसन्धानात्मकालेखे व्याकरणशास्त्राध्ययनस्य किं प्रयोजनम् ? पतञ्जलि-मुनिविरचित-व्याकरण-महाभाष्यदिशा व्याकरणशास्त्राध्ययनस्य कति प्रयोजनानि निर्दिष्टानि सन्ति ? तानि च कानि ? कथञ्च महाभाष्यकृता तेषां विवेचनं विहितं वर्तते ? इत्यादिपृच्छातृषावतां विविदिषूणां जिज्ञासाशमनाय व्याख्या- विश्लेषणात्मकविधिना पुस्तकालयीयविधिमवलम्ब्य समुपलब्ध-सामग्रीणामुचित-प्रयोगपूर्वकं महाभाष्यदिशा विविधमन्त्र-श्लोककथात्मक-दृष्टान्तोदाहरण-प्रदर्शनपूर्वकं व्याकरणशास्त्राध्ययनस्य प्रयोजनविवेचनाय प्रयासो विहितो वर्तते । आलेखेऽस्मिन् महाभाष्यादिविविधग्रन्थानां परिशीलनेन व्याकरण-शास्त्राध्ययनस्य प्रयोजनविषयकः सिद्धान्तपक्षश्च प्रतिपादितो वर्तते । साधुशब्दज्ञानस्य साक्षात्प्रयोजनत्वं, रक्षोहागमलघ्वसन्देहानां मुख्यप्रयोजनत्वं, तेऽसुरा इत्यादित्रयोदशानां गौणप्रयोजनत्वं, विशालसंस्कृतवाङ्मयस्य सम्यग्ज्ञानं तद्रक्षणञ्चापि व्याकरण-शास्त्राध्ययनस्य प्रयोजनमिति निष्कर्षोऽत्र स्थापितोऽस्ति । अनेन गवेषणात्मकालेखेन महाभाष्यदिशा व्याकरणशास्त्राध्ययनस्य प्रयोजनविषयक-निष्कर्षज्ञानाय जिज्ञासूनां सौकर्यं भवेदित्याशासे ।