वैदिकवाङ्मये व्याकरणसम्बद्धभाषिकचिन्तनम्

Authors

  • Bikram Dev Nepal NSU Vishwovidyalaya vidhyapeeth, Beljhundi, Dang, Nepal

DOI:

https://doi.org/10.3126/anveshana.v3i1.82323

Keywords:

ऐन्द्रसम्प्रदायः, धातुजः, प्रातिशाख्यानि, वेदाङ्गानि, वैदिकसंहिता

Abstract

वैदिकवाङ्मयेषु व्याकरणसम्बद्धभाषिकचिन्तनम्इति शीर्षकेण शोधलेखस्य अध्ययनक्षेत्रं वैदिकसंस्कृते विकसिता व्याकरणसम्बद्धभाषिकचिन्तनपरम्परा अस्ति । अस्मिन् अनुसन्धाने वैदिकलौकिकवाङ्मयेषु कीदृशा व्याकरणसम्बद्धभाषिकविचाराः अभवन् एतेषु ग्रन्थेषु भाषाविचारेषु के सादृश्या भेदाश्च सन्ति इत्यादयः  शैक्षणिकसमस्यासु केन्द्रितोऽस्ति ।  अस्मिन् वैदिकभाषापरम्परायाः सुदृढीकरणा वैदिकसंहिता, वेदव्याख्यानार्थं रचितानि ब्राह्मणानि, आरण्यकानि, उपनिषदः, वेदङ्गानि, प्रातिशाख्यानि, शिक्षाग्रन्थाश्चेत्यादयः, वैदिककालस्य कृतयः, लौकिकसाहित्यस्यान्तर्गतानां पाणिनिपूर्वव्याकरणगतभाषाविचाराश्च अन्तर्भवन्ति । पाणिनिकालस्य त्रिमुनीनामाचार्याणां व्याकरणीयाः कृतयः, पाणिनेरुत्तरवर्तिनश्च  विविधाचार्याणां विचाराः सन्ति ।  अस्मिन् वैदिकसाहित्ये उल्लिखितध्वनिअक्षरशब्दव्युत्पत्तिशब्दवर्गधातुप्रातिपदिकेत्यादयो विषयाः तथा च लौकिकसाहित्ये प्रकृतिप्रत्ययस्य अवधारणा, भाषायाः चतुर्णामवस्थानां वर्णनम्, परा, पश्यन्ती, मध्यमा वैखरीणाञ्च  प्रतिष्ठापनम्, शब्दवर्गाणां स्थापना, शब्दार्थसम्बन्धः, शब्दकोशलेखनम्, शब्दानां व्युत्पत्तिः, उच्चारणसम्बन्धी धारणा, उच्चारणस्य बोधः, स्फोटस्य कल्पना इत्यादीनां भाषाव्याकरणगतस्थितीनामन्वेषणं कृतमस्ति ।  अस्य लेखस्य निर्माणार्थं गुणात्मकरूपरेखान्तर्गतं वर्णनात्मकपद्धतिः स्वीकृता अस्ति ।  पूर्वीयवाङ्मयविषये अध्ययनस्य सामग्रीः गौणस्रोतरूपेण उपयुज्यते, आवश्यकव्याख्याविश्लेषणेन सह निष्कर्षाः च गृह्यन्ते ।  आधुनिकव्याकरणे, व्युत्पत्तिशास्त्रे, प्रकृतिप्रत्यये, धातौ, शब्दवर्गे, कारके, विभक्तिषु च प्रयुक्तानां शब्दानां विकासः संस्कृतव्याकरणात् एव इति भाति ।

Downloads

Download data is not yet available.
Abstract
71
PDF (Nepali)
35

Author Biography

Bikram Dev Nepal, NSU Vishwovidyalaya vidhyapeeth, Beljhundi, Dang, Nepal

Lecturer, Department of Vyakaran (Grammar)

Downloads

Published

2025-07-29

How to Cite

Nepal, B. D. (2025). वैदिकवाङ्मये व्याकरणसम्बद्धभाषिकचिन्तनम् . अन्वेषणा Anveshana, 3(1), 114–125. https://doi.org/10.3126/anveshana.v3i1.82323

Issue

Section

Articles