उत्तररामचरित उपमाप्रयोगः

Authors

  • Rita Paudyal Gyawali NSU Vishwovidyalayavidyapeeth, Beljhundi, Dang, Nepal

DOI:

https://doi.org/10.3126/anveshana.v3i1.82322

Keywords:

उपमानम्, उपमेयम्, अलङ्कृतिः, उपस्कारकम्, साधारणधर्मः

Abstract

व्याकरणानुसारेण समीपस्थं मानमिति सामान्यार्थद्योतिकोपमा कोषेषु सदृश्यार्थे सङ्गृहीतास्ति । वैदिकसंहितासूपनिषत्सु दार्शनिकग्रन्थेषु च बाहुल्येन प्रयुक्तेयं लोकव्यवहारेऽपि स्वाभिलषितार्थं स्फोटयितुमाधिक्येन प्रयुक्ता दृश्यते । संस्कृतकाव्यशास्त्रे तु प्रायः सर्वैरपि संस्कृतकाव्यशास्त्रिभिः स्वकीयेषु लक्षणग्रन्थेषु महाकविभिश्च स्वकीयेषु महाकाव्यादिषु प्राथम्येन लक्षिता प्रयुक्ता च विद्यते । महामुनेर्भरतादारभ्याधुनावधि सर्वैरप्याचार्यैरुपमालङ्कारोपवर्णितः । यद्यपि तेषां शैलिगतभिन्नतायाः कारणाद् भिन्नन्वेऽनुभूयमानेऽपि स्वरूपे तात्त्विकमन्तरं न लक्ष्यते । उपमायां ह्युपमेयम् उपमानं साधारणधर्म उपमावाचकपदञ्चेति चत्वारि तत्त्वानि समाहितानि भवन्ति । तेषु सर्वेषां तत्त्वानामुपादाने पूर्णोपमा एकस्य द्वयोस्त्रयाणां वानुपादाने लुप्तोपमा जायते ।  मुख्यतया पूर्णोपमायाः षड् लुप्तोपमाया एकनोविंशतिर्भेदाः शास्त्रेषु विवेचिताः । भवभूतेरुत्तररामचरिते हि पूर्णोपमायाः सर्वेषां भेदानां लुप्तोपमायाश्च एकद्वित्रिलुप्तानां प्रायोऽनेकेषां भेदानां षड्पञ्चाशदुत्तर द्विशतसङ्ख्यातेषूनाशीति पद्येषु मनोरमः प्रयोगोऽस्ति । ते चोपमाभेदाः काव्यात्मभूतं रसमुपकुर्वन्तः शोभाधायकतया प्रतिष्ठिताः सन्ति । अत उत्तररामचरिते न केवलं सङ्ख्यादृशा प्रत्युत गुणदृशाप्युपमायाः प्रयोगोऽलङ्कारान्तरापेक्षया बाहुल्येन वर्तते । उपमाप्रयोगदृशा उत्तररामचरितमुत्कृष्टं दृश्यकाव्यं वर्तते ।

Downloads

Download data is not yet available.
Abstract
69
PDF (नेपाली)
35

Author Biography

Rita Paudyal Gyawali, NSU Vishwovidyalayavidyapeeth, Beljhundi, Dang, Nepal

Associate Professor, Department of Sahitya

Published

2025-07-29

How to Cite

Gyawali, R. P. (2025). उत्तररामचरित उपमाप्रयोगः . अन्वेषणा Anveshana, 3(1), 104–113. https://doi.org/10.3126/anveshana.v3i1.82322

Issue

Section

Articles