कारके प्रथमा विभक्तिः
DOI:
https://doi.org/10.3126/anveshana.v3i1.82320Keywords:
प्रातिपदिकम्, कारकः, प्रथमा, विभक्तिः, अनियतलिङ्गःAbstract
पुरातनादद्यतनपर्यन्तं विश्वेस्मिन् सर्वासु भाषासु वैज्ञानिकम्, सूत्रबद्धम्, प्राचीनम्, सुस्थिरम्, सर्वजनमान्यतमञ्च पाणिनीयव्याकरणमेवास्ति । पाणिनिना विरचिते व्याकरणे विविधप्रकरणानि अनेकसूत्राणि च विद्यन्ते । तत्र व्याकरणस्य एकः प्रमुखपक्षः कारकप्रकरणमप्यस्ति । अस्मिन् आलेखे कारकपरिचयपूर्वकं कारके प्रथमा विभक्ति इति विषये प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा इति सूत्रस्य विशेषतो लिङ्गमात्रे, परिमाणमात्रे, वचनमात्रे इत्येतेषु विषयेषु सम्यक् विवेचनं कृतमस्ति ।