जगदीश्वरवैभवमित्यस्य महाकाव्यत्वम्
DOI:
https://doi.org/10.3126/anveshana.v3i1.82318Keywords:
ध्रुवः, भगवद्विष्णुः, महाकाव्यम्, सर्गाःAbstract
"जगदीश्वरवैभवम्" इति काव्यं श्रीभीमकान्ताभिधानेन नेपालजनुषा कविना लिखितम् । भगवद्विष्णुभक्तिपरकं काव्यमिदम् । श्रीमद्भागवतमहापुराणे विद्यमानाद् ध्रुवोपाख्यानादुद्धृतमस्य वृत्तम् । अष्टसु सर्गेषु उपनिबद्धम् अपि इदं काव्यं कलेवरदृष्ट्या लघु । तेषु अष्टसु सर्गेषु कस्मिँश्चिदपि सर्गे पञ्चाशदधिकाः श्लोका न सन्ति । आपाततः काव्यमिदं लघुकाव्यम् इव प्रतीयते । एवञ्च कविभीमकान्तपन्थिना कुत्रापि (आमुखे पुष्पिकावाक्ये च) स्वमुखेन अस्य काव्यस्य महाकाव्यत्वेन नोल्लिखितम् । अतोSस्य पद्यात्मिकाया कथाया महाकाव्यत्वेन सन्देग्धव्यादस्मिन् शोधलेखे महाकाव्यत्वप्रयोजकत्वेन गृहीतानां तत्त्वानां कियत्तरः सन्निवेशः? महाकाव्यत्वपदवीमारोढुं योग्या नवेयं रचना? अथवा अन्यस्मिन् महाकाव्येतरकाव्यभेदे वा एतद् गणनीयमिति प्रश्नानुपस्थाप्य प्राचीनैराचार्यैर्विहितानां काव्यलक्षणानां निकषोपले संघट्य प्रकृतकाव्यं महाकाव्यमेवेति साधितम् वर्तते ।