समाजसापेक्षं कालिदासीयचिन्तनम्
DOI:
https://doi.org/10.3126/anveshana.v3i1.82306Keywords:
शब्दा:, ज्ञानपण्यः, धीवरः, मध्यस्थःAbstract
विश्ववाङ्मये संस्कृतवाङ्मयस्य महत्त्वपूर्णं स्थानमस्ति । संस्कृतवाङ्मयेऽपि विविधा विषया विलसन्ति । तेषु काव्यवाङ्मयं महत्त्वपूर्णं मन्यते । काव्येष्वपि कालिदासीयानां काव्यानां लोकोत्तरं महत्त्वं विद्यते । कालिदासीयकाव्येषु न केवलं सौन्दर्यचेतनाया विकासोऽपितु सामाजिकचेतनाया अपि प्रसारो दृश्यते । राष्ट्रे समाजे व्यक्तौ च कीदृशी भावना अपेक्ष्यते इति तत्र तत्राभिव्यक्तमनुभूयते । राज्यसञ्चालनस्य सन्दर्भे मानवजीवनस्य यापनसन्दर्भे तथा जीवनस्य विविधसन्दर्भे कीदृशो व्यवहार आवश्यक इत्यादयो विषया अपि कालिदासीयकाव्येषु चिन्तिताः सन्ति- ‘शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम्..., ‘सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः’ ‘नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण’, ‘आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि’, ‘न धर्मवृद्धेषु वयः समीक्ष्यते’, ‘शरीरमाद्यं खलु धर्मसाधनम्’ इत्यादीनि वचांसि साम्प्रतिकस्य समाजस्याप्यादर्शभूतानि सन्ति । वस्तुतः काव्यप्रयोजनप्रतिपादयद्भिः प्रस्तुतानि सर्वाण्यपि प्रयोजनानि कालिदासस्य काव्यात्सिध्यन्ति । तादृशः कोऽपि सामाजिको विषयो न विद्यते यस्य वर्णनं कालिदासेन न विहितं स्यात् । अतः कालिदासस्य काव्यानि शासकानां सामाजिकानामन्येषाञ्च जनानां कृते आदर्शमयानि वेविद्यन्त इति ।